पर्णयैव द्विलाचन्या सैषालीरवलोकते । |
पूर्णयेति ॥ सैषा आलीभवादशीः पूर्णयैव द्विलोचन्या नेत्रद्वयेनावलोकते, मां तु पुनः मन्तुमन्तमिव सापराधमिव एकस्या अपि दृशोऽन्तः प्रान्तदेशस्तस्याप्यणुर्लेशस्तेनापि द्राक् झटिति क्षणमात्रमेवेक्षते । पूर्णद्विलोचन्या चिरकालविलोकनस्य का कथेत्यर्थः । सापराधोपि सरोषया दृशा विलोक्यते। प्रियया च प्रेयान्दृगन्तेनैव विलोक्यते। सख्यादिबान्धवजनस्तु सरलैः सकलैनैत्रैः। द्विलोचन्या समाहारद्विगौ 'द्विगोः' इति
[१]न लोकते यथेदानीं मामियं तेन कल्पये। |
नेति ॥ हे सखि, यथा येन प्रकारेण । यत इति यावत् । यस्मादिदानीमियं मां न लोकते तेन हेतुना योऽहं दूत्यावसरेऽनया दृष्टोप्यहमीदृशा सर्वथानवलोकिन्याऽनयैव व्यस्मारिषि विस्मृत इति कल्पये संभावयामि । संप्रति जिज्ञासिताशेषविशेषं मां द्रक्ष्यतीति तु कथा दूरे। किंतु सर्वथा नावलोकयत्यपीत्यर्थः । स एवायमिति प्रत्यभिज्ञानं यद्यभविष्यत्, तर्हि तादृगेव व्यलोकयिष्यदपि, नत्वेवं, तस्माद्विस्मृत एवाहमनयेति कल्पना युक्तेति सोल्लुण्ठम् । पूर्ववद्वक्रोक्तिः । कल्पये चिन्तार्थाञ्चौरादिकात्कृपेः 'णिचश्च' इति तङ् । व्यस्मारिषि, सरतेः कर्मणि लुडुत्तमैकवचन इटि ‘स्यसिच्सीयुट्-' इत्यादिना सिच इडागमे तस्य चिण्वद्भावे 'अचो ञ्णिति' इति वृद्धिः॥
रागं दर्शयते सैषा वयस्याः सूनृतामृतैः। |
रागमिति ॥ हे कले, सैषा वयस्या भवादृशीः सूनृतानि प्रियसत्यानि वचनानि तद्रूपैरमृतैः कृत्वा रागं निजां प्रीतिं दर्शयते बोधयते । भवतीष्वतितमां मम प्रीतिरिति ज्ञापयतीत्यर्थः । मां पुनः त्वं ममेत्येतावन्मात्रमपि वक्तुं मौनिनी । तूष्णीं भवतीत्यर्थः । यतो वृथैव मानिनी धृताभिमाना । नहि मया किमप्यपराद्धमित्यर्थः । त्वं मदीय इत्येतावतैव वचनेनाहं सनाथः, परं तावदपि न वदति, मय्यस्याः कृपा नास्त्येवेति सोल्लुण्ठम् । लज्जावशान्न् वदतीति व्याजेन स्तुतिर्वा । दर्शयते, णिचश्च' इति तङ् । वयस्याः,दृशेर्बुद्ध्यर्थत्वात् 'गतिबुद्धि-' इति अणौ कर्तुणौ कर्मत्वम् ॥
कां नामन्त्रयते नाम नामग्राहमियं सखीम् । |
- ↑ 'नालोकते' इति पाठो जीवातुसुखावबोधासंमतः।