पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४७
एकोनविंशः सर्गः।

मपि विवक्षितम् , एतदर्थमेतत्प्रायोजि वा । कान्ताशब्दस्य प्रियादित्वाद्युतेत्यस्य न पुंवत् । त्वरयति, हेतुमण्णिच् । कारीति भविष्यत्यावश्यके णिनिः। तद्योगे च 'अकेनो:-' इति निषेधाद्दिनोदयमिति षष्ट्यभावः । आसिता, लुट् । भ्रूणायितः,आचारक्यङ्ङन्तात् क्तः। क्षणान् , कालवाचित्वाद्द्वितीया ॥

मुषितमनसश्चित्तं भैमि त्वयाद्य कलागृहै-
 र्निषधवसुधानाथस्यापि श्लथश्लथता विधौ।
अजगणदयं संध्यां वन्ध्यां विधाय न दूषणं
 नमसितुमना यन्नाम स्यान्न संप्रति पूषणम् ॥ २३॥

 मुषितेति ॥ हे भैमि, चतुःषष्टिकलानां गृहैर्निवासभूतयाद्य मुषितं चोरितं मनो यस्यापहृतचित्तस्य त्याजितस्वभावस्य वा निषधवसुधानाथस्य नलस्यापि विधौ श्रुतिविहितसंध्यादिनित्यकर्मणि विषये श्लथश्लथता श्लथप्रकारता आलस्यातिशयोऽनादरातिशयो वा वर्तत इति चित्रम् । परमधार्मिकोऽप्यनेककलाभिज्ञत्वात्त्वया स्ववशीकारेण धर्मविमुखः कृत इत्याश्चर्यम् । अनुचितमेतदित्यर्थः । अथ च-कलानिधिभूतया त्वया मुषितमनस्कत्वात्कलानिधौ विधावप्यनादर इति चित्रम् । कथं शैथिल्यमित्यत आह-यद्यस्मात्परमधार्मिकोऽप्ययं संध्यां संध्योपलक्षितं प्रातःकालं वन्ध्यां नित्यस्नानादिप्रातःकृत्यरहितं विधाय कृत्वा विहिताकरणजन्यं दूषणं नाजगणत् । यच्च संप्रति पूषणं सूर्यं नमसितुमना नमस्कर्तुकामोऽपि न स्याद्भवति । नामाप्यर्थे । परित्यक्तनित्यकर्मा सूर्यस्य नमस्कारमपि न करोतीत्युपालम्भः । अन्योपि.कामी कस्यांचिदासक्तो निजधर्मपत्नीमसंभुञ्जानो वन्ध्यां विधत्ते, दोषं न गणयति, संभोगविघ्नभूतत्वाद्दिनकरमपि नाद्रियते तथायमपि । संध्यादिनित्यकर्मानुष्ठानार्थं क्षणमिमं मुञ्चेति भावः । गृहस्य पुंस्त्वाद्बहुवचनान्तत्वेपि त्वयेत्यनेन सामानाधिकरण्यं युक्तम् । स्यात् , संभावने लिङ् ॥

न विदुषितरा कापि त्वत्तस्ततो नियतक्रिया-
 पतनदुरिते हेतुर्भर्तुर्मनस्विनि मा स्म भूः ।
अनिशभवदत्यागादेनं जनः खलु कामुकी-
 सुभगमभिधास्यत्युद्दामा पराङ्कवदावदः ॥ २४ ॥

 नेति ॥ भो मनस्विन्यतिधैर्ययुक्ते सावधाने वा, त्वत्सकाशाद्विदुषितरातितरां पण्डिता सर्वलोकशास्त्ररहस्यं विदुषी काप्यन्या यद्यस्मान्नास्ति ततस्तस्माद्भर्तुर्नलस्य नियतक्रियापतनान्नित्यसंध्यादिकर्मलोपाद्यद्दुरितं तत्र त्वं हेतुर्मा स्म भूः। संध्याद्यनुष्ठानार्थं शीघ्रमेनं मुञ्चेत्यर्थः । किंच-खलु यस्मादुद्दामा निरङ्कुशोऽत एव पराङ्कवदावदोन्यदीयकलङ्कभाषणशीलो जनोनिशं भवत्या अत्यागात्, भवत्या कर्तृभूतया वामोच-