पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०८
नैषधीयचरिते

 नीतयोरिति ॥ स नलस्तया भर्तृकृतपाणिनिपीडनभिया स्तनपिधानतां कुचाच्छादनतां नीतयोः प्रापितयोस्तदीयभुजयोः परं केवलं करं दातुं स्थापयितुं पूर्वमाप । शक्तोभूदित्यर्थः । ततोऽनन्तरं वीतबाहुन्यपनीतभैमीकरे हृदंशुके हृदयावरणवस्त्रे करं दातुमाप । अथ ततोपि पश्चात्केवले निरंशुके तत्कुचद्वये करं दातुमाप । मुग्धाजातिः। लज्जापचयकामोपचयो क्र[१]मेणोक्तौ ॥

याचनान्न ददतीं नखक्षतं तां विधाय कथयाऽन्यचेतसम् ।
वक्षसि न्यसितुमात्ततत्करः स्वं विभिद्य मुमुदे स तन्नखैः ॥ ७२ ॥

 याचनादिति ॥ त्वमपि नखोल्लेखं कुर्विति प्रेमभरेण याचनादपि नखक्षतं न ददतीं कथयापि कथयाऽन्यस्मिन्गोष्ठीरस एव चेतो यस्यास्तां विचित्तां विधाय गोष्ठीसंवादमुखाभिनयव्याजेन स्ववक्षसि न्यसितुं स्थापयितुमात्तः स्वहस्तेन गृहीतस्तस्याः करो येनैवंभूतः सन् तस्याः स्वहस्तधृतहस्तनखैः स्वं स्वशरीरं विभिद्योल्लिख्य मुमुदे ॥

स प्रसह्य हृदयापवारकं हर्तुमक्षमत सुभ्रुवो बहिः ।
ह्रीमयं तु न तदीयमान्तरं तद्विनेतुमभवत्प्रभुः प्रभुः ॥ ७३ ॥

 स इति ॥ स प्रभुः स्वामी सुभ्रुवो भैम्या बहिर्हृदयापवारकं वक्षःस्थलादिवसनं प्रसह्य हठाद्धर्तुमक्षमत । तु पुनह्रीमयमान्तरमन्तःस्थं भैमीसंबन्धितत्कामक्रीडनिवारकं कुलस्त्रीहृदयभूषणीभूतमपवारकमपनेतुं प्रभुः समर्थो नाभवत् । एवं विस्रम्भणक्रमेण यद्यपि लज्जां त्याजिता तथापि हृदयाच्छादिवस्त्रापाकरणपूर्वकुचस्पर्शादिना पुनरपि लज्जितैवेति भावः॥

सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला।
भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः ॥ ७४॥

 सेति ॥ बलिना प्रभाववता, अथच-उद्दीप्तेनापि स्मरेण ह्रीक्षमे लज्जाधैर्ये अहापिता- त्याजिता साऽबला स्त्री, अथच- -स्त्रीत्वादुर्बला भृशमशोभत । युक्तोऽयमर्थः-यतो जनो वसनं विनापि भाति च शोभत एव । तु पुनर्व्रीडधैर्ययोः परिवर्जने परित्यागे नैव शोभते । तस्माद्युक्तमर्थान्तरन्यासः । उद्दीप्तेपि कामे लज्जाधैर्यापरित्यागान्नितरां नलस्य स्पृहणीयत्वाच्छुशुभ इति भावः ॥

आत्थ नेति रतयाचिनं न यन्मामतोऽनुमतवत्यसि स्फुटम् ।
इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा ॥ ७५ ॥

 आत्थेति ॥ सा इत्येवं भङ्गया स्वनिषेधार्थमपि तस्या अभिलापने मञ्जुलवाणीश्रवण


  1. 'अत्रैकस्य करस्य क्रमादनेकेषु भुजांशुककुचेषु वृत्तिकथनात् 'क्रमेणैकमनेकस्मिन्' इत्याद्युक्तलक्षणः पर्यायालंकारभेदः' इति जीवातुः।