पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४६
नैषधीयचरिते

मानवाशक्यनिर्माणाकूर्माद्यङ्कबिला शिला।
न श्रद्धापयते मुग्धास्तीर्थिकाध्वनि वः कथम् ॥ १०३ ॥

 मानवेति ॥ मानवैर्मनुष्यैरशक्यं निर्माणं यस्याः, तथा -कूर्मवराहनरसिंहादयोऽङ्काश्चिह्नानि येषामेवंविधं बिलं विवरं यस्याः सा शिला गण्डकाख्यतीर्थविशेषसंभवा शालग्रामशिला भो मुग्धा मूर्खाः, तीर्थिकाध्वनि सेश्वरमार्गे वैदिकाध्वनि वा वो युष्मान्कथं न श्रद्धापयते आस्तिक्यं न प्रापयति । चित्रमेतत् । भवतां मूर्खतरत्वमित्यर्थः । मनुष्यैरशक्यरचनं सावयवत्वेन कार्यं शिलादि स्वनिर्माणशक्तमिच्छामात्रेण कर्तारं मनुष्याद्विलक्षणमीश्वरमाक्षिपति । 'विमतं सकर्तृकं कार्यत्वाद्धटवत्' अनुमानात्पक्षधर्मताबलाद्विलक्षणे कर्तरीश्वरे सिद्धेऽपि कथमनाश्वास इत्याशयः। एतेन 'देवश्चेदस्ति सर्वज्ञः-' इत्यादेरुत्तरं दत्तमिति ज्ञेयम् ॥

शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः कथम् ।
श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत ॥ १०४ ॥

 शतेति ॥ भो नास्तिकाः, शतक्रतुश्च श्नीविष्णोरूरुभ्यां जायत इत्यूरुजो वैश्यः स आदिराद्यो वा येषां ते ब्राह्मणादिवर्णाश्च तेषामाख्या शतक्रतुः, मुखजो बाहुज ऊरुज इत्यादीनि नामानि तेषां सर्वत्र विशेषेण ख्यातिः कर्त्री श्रुतिवृत्तान्तसंवादैर्वेदोक्तेतिहासैः करणैर्वो युष्मान्कथं न चमदचीकरच्चमत्कारं नाकारयत् । अपित्वाश्चर्यं भवतां त्वयोत्पाद्यम् । चमदित्यव्ययमाश्चर्यार्थें । 'शताश्वमेधक्रतुकारीन्द्रो भवति' इतीन्द्रस्यैव शतक्रतुत्वं वेदेनोक्तम् । लोकेनापीन्द्र एव शतक्रतुत्वेन व्यवह्रियते नतु वह्नयादिरिति । तथा-'ब्राह्मणोऽस्य मुखमासीत्-' इत्यादिश्रुत्या ब्राह्मणक्षत्रियादीनां मुखज- त्वबाहुजत्वाद्युक्तम् । लोकेनापि ब्रह्मक्षत्राय एव मुखजत्व बाहुजत्वादिभिर्व्यवह्रियन्ते, नतु विपर्ययेणेति वेदोक्तेन सह लोकस्यानुभूयमानात्संवादादपि वेदे यथोक्तं तथैव लोको व्यवहरत्याश्चर्यमेतदित्याश्चर्यपूर्वं वेदप्रामाण्यं कथं न विश्वसिथेति, अपितु विश्वसनीयं तत्रेत्याशयः । ऊरुजपदं वृत्तानुरोधात्प्रायोजि । तथा च सर्वेपि वर्णाः संगृहीताः। विख्यातिः प्रयोजिका संवादैः प्रयोज्यैर्वो युष्माकं चमदाश्चर्यं कथं न कारयामासेति वा । शतक्रतुश्च ऊरुजोर्वशी च तदादिर्वह्निमेनकेत्यादिराख्या येषां यासां च वह्नयादीनां मेनकादीनां च तेषां प्रसिद्धिर्वेदवृत्तान्तसंवादैर्हेतुभिर्युष्माकं कथमाश्चर्यं नाचीकरत् । लोकवेदप्रसिद्धानिन्द्रादीनुर्वश्याद्यप्सरसश्चैतान्सर्वान्प्रत्यक्षेणात्रैव पश्यतेत्यर्थः । ततश्च वेदः, तन्मूलं परलोकादि च, प्रामाणिक्रमेवेति भाव इति वा । प्रथमव्याख्याने व इति 'ह्रकोः-' इत्यणौ कर्तुणौ कर्मत्वम्, चमदिति च कर्मान्तरम्, संवा. दैरिति करणे तृतीया। पक्षान्तरे तु तेनैव सूत्रेणाणौ कर्तुः कर्मत्वस्य वैकल्पिकत्वेन कर्मत्वाभावादनभिहिते कर्तरि संवादैरिति तृतीया, व इति षष्ठी ॥