श्वःश्व इति॥यस्य मोहस्य सेवका बालिशा मूर्खाः । अथवा स्वयंप्र(स्यप्र)jज्ञत्वाभिमानात् , परोपदेशानङ्गीकाराच्च शिशुभूताः । एवंभूता जनाः पुत्रकलत्रादिरूपकुटुम्बरूपे
कर्दमे बुडिता अपि मृतो(ऽहम् ), अयं पुत्रः किं करिष्यति, इदं कलत्रं वा किं करिष्यति, अस्य क्षेत्रादेः किं भविष्यतीत्यादिप्रकारेण पुत्रादियोगक्षेमविचारणामात्रपराः शिश्नोदरपरायणाः सन्तः परेद्यवि । अतिसंनिहित इति यावत् । 'जातस्य हि ध्रुवो मृत्युः'
इत्यादिवचनप्रामाण्यादनातुरत्वेपि संनिहिते प्राणगमने ज्ञाते । संनिपातादिनातुरत्वे.
ऽपि वा श्वः प्राणप्रयाणे निश्चिते । सत्यपि संसारसमुद्रतारकं स्मरहरं न ध्यायन्ति ।
किंतूक्तप्रकारेण मरणसमयेऽपि कुटुम्बचिन्तामेव कुर्वन्तीत्यर्थः। इदमपि मूढलक्षणम्।
जम्बाले निमग्नोऽन्योपि किमपि न स्मरति । श्वःश्वः' इति वीप्सायां द्विः। श्वः स्वप्राण-'
इति स्वस्य प्राणानामित्यर्थः । स्मरद्विषः इति 'अधीगर्थ-' इति कर्मणि षष्ठी । 'द्विषम्
इति पाठे कर्मत्वविवक्षया द्वितीया ॥
पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम् । |
पुंसामिति ॥ यो मोहो न लब्धं निर्वाणं विनाशो येन स ज्ञानरूपो दीपस्तन्मयस्तत्प्रचुर आत्मा मनो येषां वसिष्ठादीनां ज्ञानिनां पुंसामुज्वलमप्यन्तो निर्मलमप्यन्तःकरणं व्यक्तं प्रकटं म्लापयति मलसहितं करोति । मोहमोहिताः कामाधीनाः सन्तो शानिनोऽपि विश्वामित्रादयः स्वमनो मेनकादिदेवाङ्गनाप्रवणं चक्रुः । पूर्वमुज्ज्वलस्यापि मनसो मोहेन मालिन्यं कृतम् , 'ज्ञानिनामपि चेतांसि'-इत्यादि मार्कण्डेयवचःप्रमाणम् । न लब्धः साक्षात्कृतो निर्वाणोपयोगी मोक्षोपयोगी ज्ञानदीपकरूपः स्वप्रकाशज्ञानरूप आत्मा यैस्तेषामद्वैतज्ञानरहितानामिति वा । किमिव-कज्जलवत् । यथा मध्ये स्थापितस्य दीपस्य कज्जलं सुधाधवलितानां घटादीनां मध्यं मलिनयति ॥
ब्रह्मचारिवनस्थायियतयो गृहिणं यथा । |
ब्रह्मेति ॥ ब्रह्मचारी, वनस्थायी वानप्रस्थः, यतिः संन्यासी, एते त्रयोऽपि आश्रमिणो गृहिणं गृहस्थं यथाशनाच्छादनार्थमुपजीवन्ति सेवन्ते । 'यस्मात्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थैरेव धार्यन्ते तस्माज्येष्ठो गृहाश्रमी ॥ इति स्मार्तवचनात् । तं लक्ष्यीकृत्य वा प्राणधारणं कुर्वन्ति, तथा '-क्रोधलोभमनोभवा यं मोहं सेवन्ते यं लक्ष्यीकृत्य वा स्वरूपं लभन्ते । मूढ एव क्रुद्धो लुब्धः कामी च भवति ॥
जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता। |
जाग्रतामिति ॥ यो मोहो जाग्रतां सावधानानामपि निद्राविवेकरूपं निश्चैतन्यम् । तथा यः पश्यतां चाक्षुषज्ञानवतामप्यन्धता चक्षुराच्छादनाद्ट्रष्टव्यदर्शनाभावरूपं स-