पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१३
सप्तदशः सर्गः।

तान्सप्तापि लोकाशापाग्निना दग्धुमिच्छति । दुर्वासा हि सर्वदा क्रोधाविष्टः सर्वमपि शापाग्निना दग्धुमिच्छति ।अन्योऽपि क्षुद्रो बाणेनाप्राप्यमतिविषमं गिर्यादिदुर्गमाश्रित्य सर्वानपि पीडयति । रूपकं । समासोक्तिश्च ॥

वैराग्यं यः करोत्युच्चै रञ्जनं जनयन्नपि ।
सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः ॥ २२ ॥

 वैराग्यमिति ॥ यः क्रोधो नितरां मुखादिलौहित्यं कुर्वन्यावत्स्वकार्यं करोति तावदुद्वेगमपि जनयति । तथा-नितरां प्रदीप्तोऽभिवृद्धोऽभिभवेच्चक्षुरादीनि सर्वाणि बाह्याभ्यन्तरेन्द्रियाण्याच्छादयत्येवंशीलमज्ञानमप्युत्पादयति । प्रसिद्धं तम आलोकाभावाच्चक्षुरिन्द्रियमेवाच्छादयति रूपाग्रहणात्, नतु रसादीनि तमस्यपि रसगन्धादीनां ग्रहणस्य सर्वसाक्षिकत्वात् । इदं तु क्रोधवशान्मनसोऽनवस्थानात्सहकारिसंनिधानाभावाच्चक्षुरादीनां रूपादिस्वविषयग्रहणासामर्थ्यजननात्सर्वेन्द्रियाच्छादि । एवमाश्चर्यजनकं तमश्च यः सूत इत्यर्थः । अपी परस्परसमुच्चयार्थौ । अथ च- --यो हिंसादौ प्रीतिं जनयन्महानिष्टोत्पादनानुशयात्प्रायश्चित्तार्हत्वनिदानभूतं वैराग्यं जनयति । अथ च पूर्वोक्तप्रकारेण वैराग्यं फलभूतं जनयितुं रञ्जनं करोति । प्रज्वलितुं च तमः सूत इति वा यथाकथंचिद्धेतौ शत्रा व्याख्येयम् । अथवा-अपी विरोधार्थौ । यो लौहित्यं च जनयति, यश्च प्रीतिमुत्पादयति स एवाप्रीतिमिति कथम् । यश्च प्रकर्षेण दीप्तस्तेजोरूपः सोऽन्धकारं रञ्जनं च कथं सूते, तत्रापि सर्वेन्द्रियाच्छादिनमिति विरोधाभासौ। वैराग्यशब्दस्य लौहित्याभाव प्रीत्यभावार्थश्लेषात्, तमाशब्दस्य चान्धकारार्थश्लेषात् । तत्परिहारस्तूक्तप्रकारेण ॥

पञ्चेषविजयाशक्तौ भवस्य क्रुध्यतो जयात्
येनान्यविगृहीतारिजयकालनयः श्रितः ॥ २३ ॥

 पञ्चेष्विति ॥ पञ्चेषुविजयाशक्तौ कामजयविषये अभिनिवेशाभावादशक्तौ सत्यां कुप्यतो महेश्वरस्य जयात्स्ववशीकरणाद्धेतोर्यन क्रोधेन परेण प्रारब्धविग्रहे शत्रौ स्वजयस्य समयः, तत्पराभवारम्भसमयः स इत्येवं रूपो नीत्युपदेशोऽङ्गीकृतः । अन्यदा यो जेतुमशक्यः सोऽन्येन विगृहीतो यदा भवति तदा जय्यो भवतीति नीत्युपदेशः। अन्यदा जेतुमशक्यस्य भवस्य स्मरेण सह विग्रहसमये जितत्वाच्छ्रित इवेत्युत्प्रेक्षा । महेश्वरोपि येन स्ववशीकृतः, तस्य क्रोधस्य माहात्म्यमशक्यवर्णनमिति भावः । विगृहीतारिजय इति सप्तमीसमासः। अरेर्जयकाल इति षष्ठीसमासो वा । पञ्चभिः कुलकम् ॥

हस्तौ विस्तारयन्निभ्ये बिभ्यदर्धपथस्थवाक् ।
सूचयन्काकुमाकूतैर्लोभस्तत्र व्यलोकि तैः ॥२४॥

 हस्ताविति ॥ इभ्ये धनिनि विषये द्वावपि पाणी लोभात्प्रसारयन् , दास्यति न वेति हेतोभयं प्राप्नुवन् अत एवार्धपथस्थवाक् हृदयान्निर्गत्य कण्ठमागत्य मुखादनिःस-