पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३८
नैषधीयचरिते

 ललाटिकेति ॥ ललाटे रचिताया रेखाकाराया ललाटिकायाः पत्रपाश्याया अलंकारविशेषस्य सीमनि पर्यन्तप्रदेशे भीमनरेन्द्रजन्मनो भैम्याश्चूर्णकुन्तला बक्रकुण्डलीभूताः केशाः कज्जलरूपस्य धूमस्य वल्लयः श्रेण्यः स्फुटमिव बभुः। किंभूता वल्लयः-मनःशिलायाश्चित्रकं तिलकस्तद्रूपो दीपस्तस्मात् संभवो यासां ताः। तथा-भ्रमीः संकुच्य वक्रीभावान्विभ्रति ता विभ्रत्यो धारयन्त्यः । नलस्य मनःशिलातिलकेनैव कामोद्दीपनात्तस्य दीपत्वम् । दीपधूमसंभवा कज्जलश्रेणिः किल भ्रमियुक्ता भवति । 'पत्रपाश्या ललाटिका' इति हलायुधः। 'कर्णललाटात्कन्नलंकारे' इति कन् ॥

 श्लोकचतुष्टयेन कज्जलालंकारं वर्णयति

अपाङ्गमालिङ्गय तदीयमुच्चकैरदीपि रेखा जनिताञ्जनेंन या।
अपाति सूत्रं तदिव द्वितीयया वयःश्रिया वर्धयितुं विलोचने॥३४॥

 अपाङ्गमिति ॥ अञ्जनेन जनिता या रेखा सा तदीयमपाङ्गमालिङ्ग्य स्पृष्ट्वा उच्चकैर्नितरामदीपि शुशुभे । द्वितीयया तारुण्यवयःश्रिया का विलोचने भैमीनेत्रे वर्धयितुं शैशवापेक्षया विशाले कर्तुं तद्रेखादीपनं सूत्रमिव अपाति । प्राच्यो हि सुन्दर्यो विलोचने नेत्रप्रान्तनिर्गतया कर्णोपान्तरस्पर्शिन्याञ्जनरेखया भूषयन्ति । शिल्पिनश्च किमपि लेखितुं वर्धयितुं वा लिख्यमानस्य वर्ध्यमानस्य वाकारवक्रिमपरिहाराय मषीखटिकाद्युपदिग्धस्य सूत्राभिधातेन रेखापातनं कुर्वन्ति । यद्यपि नेत्रयोवृद्धिर्नास्ति तथापि शैशवापेक्षया तारुण्येन कटाक्षविक्षेपादिविलासवशार्दैध्यप्रतीतेर्दैध्यकरणार्थं सूत्रपातो युक्तः । नेत्रे कजलाञ्चिते इति भावः॥

अनङ्गलीलाभिरपाङ्गधाविनः कनीनिकानीलमणेः पुनः पुनः ।
तमिस्रवंशमभवेन रश्मिना स्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥ ३५ ॥

 अनङ्गेति ॥ अनङ्गलीलाभिः कटाक्षविक्षेपरूपैः कामविलासैः कृत्वा पुनः पुनरपाङ्गधाविनो नेत्रोपान्तस्पर्शिनः कनीनिकानीलमणेनॆत्रतारकारूपस्येन्द्रनीलरत्नस्य तमिस्रवंशप्रभवेनायश्यामान्वयजेन(s) अतिकृष्णेन रश्मिना सकज्जलरेखारूपा सा स्वपद्धतिर्निजगमनसरणिः किमरञ्जि, अञ्जनैर्न । सदा तन्मार्गगमनेन स्वसंबन्धात्तारकानीलमणि- किरणैरेव नेत्रप्रान्तो नीलीकृतो, न कज्जलैरित्युत्प्रेक्षा । कामोल्लसितनिरतिशयकटाक्षश्रीतुल्याञ्जनशोभालंकारतां जगामेति भावः ॥

असेविषातां सुषमां विदर्भजादृशाववाप्याञ्जनरेखयाऽन्वयम् ।
भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण वाणीकृतयोः पयोजयोः ॥ ३६ ॥

 असेविषातामिति ॥ विदर्भजाशावञ्जनरेखयाऽन्वयं संबन्धमवाप्य स्मरेण वाणीकृतयोर्वाणत्वं प्रापितयोर्नीलोत्पलयोः सुषमां परमां शोभामसेविषातामलभेताम् । किंभूतयोः-सव्यापसव्यबाणाकर्षणाद्भुजद्वयेऽधिकरणे ज्याकिणपद्धतिर्ज्याभिघातवैवर्ण्यरूपकिणमार्गस्तां स्पृशत इति स्पृशौ तयोः। नलमुद्दिश्याकर्णबाणाकर्षणात्कर्णान्त-