दैवाद्यदा प्रवितरन्ति न ते तदैव |
अस्मा इति ॥ सर्वे नृपाः अस्मै नृपाय करं वलिं कस्मात्कथं न प्रवितरन्तु प्रयच्छन्तु । अथ च-दासभूतत्वात्स्वामिनेऽस्मै हस्तं कथं न वितरन्तु । दासेन हि स्वामिने हस्तो दीयते । यद्यस्मात् तत्र द्विविधेऽपि करदाने कृपाणः खङ्गः अस्यैव प्रतिभूरभूत् । ते राजानो दैवाद्विनाशकाले विपरीतदैववशाद्यदा न द्विविधमपि करं प्रवितरन्ति ददति तदा निजस्य कृपाणस्य हस्तेन धारणाय इदंकृपा अस्य कृपा नैव भवति । तदा क्रुद्धः सन् खड्गतोलनेन तानिहत्य वलात्करं गृह्णात्येव । तदैवेत्यविलम्वार्थ एवकारो वा । हस्ते गृहीतखड्गमेनं दृष्ट्वा भीताः सन्तस्ते बलिमस्मै प्रयच्छन्ति । अथ च-दासा भूत्वा हस्तदानं प्रयच्छन्ति । उभयविधकरदाने तव खड्गस्य प्रतिभूत्वात्ते चेन्न प्रयच्छन्ति तर्हि त्वत्त एवोभयविधं करं गृह्नामीत्युक्त्वा बलात्करं गृह्णातीति भावः । लोके ऋणी चेन्न प्रयच्छति तदा बलात्कारेण लग्नक एव गृह्यते । अस्य कृपा इति षष्ठीसमासः॥
एतद्दलैः क्षणिकतामपि भूखुराग्न- |
एतदिति ॥ एतद्वलैरेतस्य सैन्यभूतैर्वाहैरश्वैः सहस्त्रदृगिन्द्रः तस्य अर्वाश्व उच्चैःश्रवास्तस्य गर्वः खुराग्रैर्भूमिं न स्पृशामि, गगने चरामि, वेगवांश्च मादृशोऽन्यो न विद्यत इत्येवंरूपः अलुप्यत लुप्तो विनाशितः। किंभूतैर्वाहैः-भुवः खुराग्रैः कृत्वा यः स्पर्शस्तद्रूपाणि यान्यायूंषि स्थितयस्तेषां क्षणिकतामपि क्षणमात्रं या स्थापिता तामपि रयरसाद्वेगाभिनिवेशादसमापयद्भिः । क्षणमात्रमपि खुराग्रैर्भूमिमस्पृशद्भिरित्यर्थः । तथा-दृग्भिर्नेत्रैः पेयाः सादरमवलोकनीयाः केवलं नभःक्रमणप्रवाहाः गगनगमनपरम्परा येषाम् । वेगवशादलक्ष्यभूगमनैः। 'केवलं नभसि क्रमणं येषां (तेषां) वायूनां प्रवाहाः सङ्घाः । दृक्पेया दृश्याश्च ते वायुसङ्घाश्च तद्रूपैरिति वा । वायोः सवेगत्वेऽप्यचाक्षुषत्वादेतेषां तत्तुल्यवेगत्वेऽपि चाक्षुषत्वाच्चाक्षुषवायुरूपैः वायोरप्यधिकैरेवंविधैर्वा । 'सहस्ररुगर्वगर्वः' इति पाठे सूर्याश्वानामित्यर्थः ॥
एतङ्वर्णनासमय एव समेतलोक- |