पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०१
एकादशः सर्गः।


एकं जनाय सतताभयदानमन्य-
 द्धन्ये वहत्यमृतसत्रमवारितार्थि ॥ १२० ॥

 ज्ञानेति ॥ हे धन्ये, त्वं ज्ञानेनाधिका उत्कृष्टासि ईदृशी काचिद्विदुषी नास्ति तस्मात्त्वं अधिकाशि काश्यां सुकृतानि पतिपरिचर्यादीनि पुण्यानि कुर्याः । अन्यकथनैरपि 'एवंविधा एवंविधा काशी' इति प्रत्येकं काशीमाहात्म्यकथनेन किं कार्य कि प्रयोजनम् । काशीमाहात्म्यकथनेऽन्यमाहात्म्यकारणकथनैः किमपि प्रयोजनं नास्तीत्यर्थः । अन्यस्य वस्तुनः कथनैरिति वा । यत्र काश्यां मृत्योः सकाशाजनाय सततं सर्वदा अभयदानं एकममृतसत्रं मोक्षरूपं सत्रं वहति वर्तते । न वारिता अर्थिनो जलयाचका यत्र एवंभूतमन्यद्वितीयममृतसत्रमुदकसत्रं भागीरथीरूपं वहति वर्तते । यत्र स्थित्वा यत्रत्यं गङ्गोदकं पीत्वा च मृत्योरपि भयं जनस्य नास्तीति । अन्यत्र मृत्योर्भयं भवति, अत्र तु मरणानन्तरं शिवसाम्यप्राप्तिनिश्चयात् 'कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् इति वचनान्मृत्योरपेक्षितत्वाद्भयाभावः । वहतिरत्राकर्मा ॥

भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्ता
 सोऽयं तवास्तु कुसुमायुध एव मूर्तः ।
भातं च ताविव पुरा गिरिशं विराद्ध-
 माराड्डुमाशु पुरि तत्र कृतावतारौ ॥ १२१ ॥

 भूभर्तुरिति ॥ हे मृगाक्षि, अस्य भूभर्तुः मूर्ता साक्षाद्रतिः कामप्रिया एधि भव । सोऽयं नृपस्तव मूर्तः शरीरधारी कुसुमायुध एवास्तु भवतु । त्वय्यस्य रतिबुद्धिर्भवतु, अस्मिंश्च तव कामबुद्धिर्भवत्वित्यर्थः । अथ च शरीरधारिणी प्रीतिरेव भव । अयं च तव मदनोदयकारित्वान्मूर्तोऽनुराग एव भवतु । परस्परस्मिन्नतितरामनुरक्तौ भवेतामित्यर्थः । युवां ताविव रतिकामाविव भातं शोभेताम् । किंभूतौ युवाम्-पूर्वे विराद्धं प्रकोपितं गिरिशमाशु आराद्धुं तदीयं क्रोधं परिचर्यया शीघ्रमपनेतुं तत्र तस्यां पुरि काश्यां कृतावतारौ कृतनिवासौ । अतिसुन्दरौ युवां दृष्ट्वा काशीस्थो लोक एवमेव संभावयत्वित्यर्थः । अवतीर्यतेऽनेनेत्यवतारो देहः। कृतो धृतो देहो याभ्यामिति वा । 'अवे तृस्त्रोः-' इति करणे घञ् । एवमन्यत्रापि ज्ञेयम् ॥

कामानुशासनशते सुतरामधीती
 सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
रुष्टाद्विजाचरणकुङ्कुमपङ्कराग-
 संकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥ १२२ ॥

 कामेति ॥ हे भैमि, कामानुशासनस्य वात्स्यायनादिशास्त्रस्य शंते सुतरां अधीतम-