उर्वी मूर्तिः शरीरं यस्य । श्रीविष्णुस्तत्र पूज्यो देव इत्यर्थः । पीवा, क्वनिपि 'घुमास्था-' इतीकारः॥
त्वद्रूपसंपदवलोकनजातशङ्का |
त्वदिति ॥ हे भैमि, इह क्षीरोदे कमला श्रीः पादाब्जयोश्चरणकमलयोः कराङ्गुलिभिर्लालनेन संवाहनेन धवस्य श्रीविष्णोर्निद्रानुबन्धं निद्रानैरन्तर्यं चिरायानुरोधयितुं वर्धयितुं कलितावधानाङ्गीकृतावधाना सावधाना भूयाद्भवतु । किंभूता-त्वद्रूपस्य या संपत्तस्या अवलोकनेन जाता शङ्का भयं यस्याः। अयं श्रीविष्णुरिमां चेद्द्रक्ष्यति, तर्हि मां विहायास्यामनुरक्तो भविष्यति, तन्मा भूदिति भिया सुतरां निद्रागमनार्थं करतलेन चरणसंवाहनपरैव भवत्वित्यर्थः । भैम्या लक्ष्मीतोऽप्यतिसौन्दर्यं सूचितम् ॥
बालातपैः कृतकगैरिकतां कृतां द्वि- |
बालेति ॥ तत्र शाकद्वीपे उदयाचलाख्यस्य पर्वतस्य शिलाः बालातपैरुदयाचलस्थसूर्यकिरणैः, तथा नखलाक्षयापि कृतां कृतकगैरिकतां कृत्रिमगैरिकतां द्विः परिशीलयन्त्वनुभवन्तु । द्वाभ्यां प्रकाराभ्यां गैरिकतुल्या भवन्त्वित्यर्थः। किंभूतया नखलाक्षया - तव विभ्रमेण विलासेन भ्रमणं वनविहारस्तस्माज्जातं श्रमवारि खेदजलं तद्धारयान्त्येवं शीलाभ्यः पादाङ्गुलीभ्यो गलितया निःसृतया । एतस्मिन्वृते उदयाचले क्रीडिष्यसीति भावः॥
नृणां करम्बितमुदामुदयन्मृगाङ्क- |
नृणामिति ॥ हे अनघजङ्घि सुन्दरजङ्घि, तत्र द्वीपे प्रसिद्धे वा उदयाद्रिशिखरे परिभ्र-
- ↑ 'समालभना' सुखावबोधास्थपाठः ।