सुरेषु संदेशयसीदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् ।
मदर्पिता दर्पकतापितेषु या प्रयाति दावार्दितदाववृष्टिताम् ॥१९॥
सुरेष्विति ॥ हे भैमि, त्वं बहुं विपुलार्थी रसस्रवेण माधुर्यद्रवेण स्तिमितामार्द्राम् अतिसरसामनुरागबाहुल्येन चार्द्रां वक्रोक्तिप्रतिवन्द्यादिरूपां भारतीं वाणीं सुरेषु देवेषु न संदेशयसि, अपि तु तान्प्रत्येतं संदेशं कुरु । या वाणी मयेयर्पिता संदेशरूपेण, मया चार्पिता कथिता सती दर्पकतापितेषु कामपीडितेषु सुरेषु दावेन वनवह्निनार्दितो दावो वनं तस्य वृष्टितां प्रयाति । दह्यमानस्य वनस्य वह्वी वृष्टिर्यथा सुखाय भवति, तथा कामपीडितानां तेषां तव वाणी सुखाय भविष्यति । तस्मादेवं कुर्विति भावः । प्रयाति, वर्तमानसामीप्ये लट्[१] ॥
तेषां कामपीडां स्वनिन्दां चाह-
यथायथेह [२]त्वदुपेक्षयानया निमेषमप्येष जनो विलम्बते।
रुषा शरव्यीकरणे दिवौकसां तथातथाद्य त्वरते रतेः पतिः॥२०॥
यथेति ॥ एष मल्लक्षणो जनः अनया प्रत्युत्तरादानरूपया त्वदुपेक्षया त्वत्कृतयावज्ञया निमेषपरिमितं कालमपि यथायथा यावद्यावत् इह तव संनिधौ विलम्बते कालक्षेपं करोति तथातथा तावत्तावत् रतेः पतिः रुषा दिवौकसां शरव्यीकरणे लक्ष्यीकरणे अद्यास्मिन्समये त्वरते सत्वरो भवति । तस्मात्सत्वरं प्रत्युत्तरं देहीति भावः । इहोत्तरविषये त्वदुपेक्षयेति वा[३] ॥
इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।
धिगस्तु मां सावरकार्यमन्थरं स्थि[४]तः परप्रैष्यगुणोऽपि यत्र न॥२१॥
इयदिति ॥ अशनिर्वज्रः इयच्चिरस्य एतावद्बहुकालं मत्पथेऽवद्धन्ति निर्निमेषं सावधानानि एवंभूतानीन्द्रनेत्राणि किं न निर्ममौ, अपि तु तेनैव निर्मितानि । अन्यथा तेषां विलम्बसहनदार्ढ्यं कथम् । तस्माद्वज्रनिर्मितानीति सत्यम् । सत्वरे त्वरया कर्तुमहें कार्ये मन्थरं मन्दं मां धिगस्तु । अहमपि निन्द्य इति यावत् । यतः- यत्र मयि परस्य प्रेष्यो दूतः, तस्य गुणो दूतत्वलक्षणः सोऽपि न स्थितः न विद्यते । पर उत्कृष्टो यो दूतगुण इति वा । सत्वरकार्यकारित्वं दासधर्मः । प्रेषितेन दासेन शीघ्रं कार्यं संपाद्यागन्तव्यम् , कार्याभावेऽपि शीघ्रमागत्य कार्यं न भवतीति झटिति निवेदनीयम् । ते यस्मान्मां प्रतीक्षन्ते, तस्माज्झटिति प्रत्युत्तरं दत्त्वा मां प्रेषयेति भावः । अवद्धन्ति 'वा नपुंसकस्य' इति नुम्[५] ॥