पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
अष्टमः सर्गः


 तत्रैव मग्ना यदपश्यदग्रे नास्या दृगस्याङ्गमयास्यदन्यत् ।
 नादास्यदस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरान्निमेषः ॥९॥

 तत्रेति ॥ अस्या दमयन्त्या दृक् यदस्य नलस्याङ्गमग्रे प्रथममपश्यत् . तत्रैव तस्मिन्नेवाङ्गेऽनुरागवशान्निमग्ना सती प्रथमदृष्टमङ्गं विहाय अन्यदङ्गं तहिं नायास्यत् , यदि चिराच्चिरकालात्संजातो निमेषो नेत्रसंकोचः विच्छिद्य विच्छिद्य पूर्वदृष्टाङ्गविच्छेदं कृत्वा कृत्वा अस्यै भैम्यै बुद्धिधारामन्यामन्यां बुद्धिं दर्शनेच्छासंतति नादास्यत् । तेन तु बुध्यन्तरं दत्तं, तद्वशादेवान्यदङ्गं प्रापदित्यर्थः । अतिसुन्दराङ्गदर्शनस्य निमेषण विच्छेदे कृते सत्यनन्तरं तस्यैवाङ्गस्य दर्शनेच्छया पुनरप्यङ्गान्तरदर्शनं, न तु प्रथमाङ्गदर्शनविरक्त्येत्यर्थः । सर्वेप्यवयवा अतिसुन्दरा इति भावः । क्रियातिपत्तौ ऌङ् [१]

 दृशापि सालिङ्गितमङ्गमस्य जग्राह नानावगताङ्गहर्षैः ।
 अङ्गान्तरेऽनन्तरमीक्षिते तु निवृत्य सस्मार न पूर्वदृष्टम् ॥ १० ॥

 दृशेति ॥ सा दृशा आलिङ्गितं स्पृष्टमप्यस्य नलस्य प्रथमदृष्टादन्यदङ्गं अग्रे प्रथमतो- ऽवगतानि दृष्टान्यङ्गानि तज्जनितैहर्षैरानन्दैर्हेतुभिर्न जग्राह । दृष्टमप्यङ्गं हर्षभरान्न ददर्शेत्यर्थः । हर्षानुभवादनन्तरं निमेषादिवशादङ्गान्तरे ईक्षिते तु पुनः निवृत्य परावृत्य पूर्वदृष्टं प्रथमदृष्टमङ्गं न सस्मार । प्रथमदृष्टादप्यनन्तरदृष्टस्याङ्गस्यातिरमणीयत्वात्, दृश्यमानाच्च प्रथमदृष्टस्यातिरम्यत्वात्, सुखपरवशत्वाद्व्याघुट्य प्रथमदृष्टमङ्गं न स्मृतवती । नालोकतेति भावः । अन्यत्र हि पूर्वदृष्टं स्मर्यते, अत्र तु नेत्याश्चर्यम् । पूर्वोक्त एव भावः[२]

 हित्वैकमस्यापघनं विशन्ती तदृष्टिरङ्गान्तरभुक्तिसीमाम् ।
 चिरं चकारोभयलाभलोभात्स्वभावलोला गतमागतं च ॥११॥

 हित्वेति ॥ तस्या भैम्या दृष्टिः स्वभावलोला सती उभयोः प्रथमदृष्टानन्तरदृष्टयोरङ्गयोर्लाभः, तत्र लोभाल्लोलुपत्वाद्धेतोः चिरं गतं गमनम्, आगतमागमनं च चकार । द्वयोरप्यङ्गयोरतिसौन्दर्याद्नतागताभ्यां विवेक कर्तुमशक्ता द्वयमपि कर्तुं नाशकदिति भावः । किंभूता दृष्टिः-अस्य एकमपघनं अङ्गं हित्वाङ्गान्तरस्य भुक्तिरालोकनं तस्याः सीमां मर्यादां विशन्ती अङ्गान्तरमवलोकयन्ती । स्वभावलोलं च गमनागमने करोति । अन्योपि वणिग्देशान्तरस्थं वस्तु ग्रहीतुं स्वदेशस्थं विक्रेतुं गमनागमने करोति । 'अपघनोऽङ्गम्' इति निपातः॥

 निरीक्षितं चाङ्गमवीक्षितं च हशा पिबन्ती रभसेन तस्य ।
 समानमानन्दमियं दधाना विवेद भेदं न विदर्भसुभ्रूः ॥ १२ ॥


  1. अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. 'अत्राङ्गस्य दृगालिङ्गने कारणे सत्यपि तदग्रहणकार्य नोक्तम् । तत्र च प्रथममवलोकितावयवो हेतुरुक्तः तेनोक्तिनिमित्तविशेषोक्तिरतिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी