पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
नैषधीयचरिते

अत एव नेत्राभिधेयौ नेत्रसंशको सरोजराजौ अन्यकमलापेक्षया भैमीनयनीभूते कमले श्रेष्ठे तद्रूपौ सरोजराजौ अदसीयाममुष्यैतन्मुखकमलस्य संबन्धिनी सेवां सृजतः कुरुतः । अस्य यदि सम्राट्त्वं न स्यात्तर्हि किमिति नेत्राभिधेयाभ्यां सरोजराजाभ्यां सेवा क्रियेत क्रियते तावत् अतोऽन्यथानुपपत्तिप्रमाणगम्यमस्य सम्राट्त्वमित्यर्थः । भैमीमुखनेत्रं विजिताजमिति भावः । अन्योऽपि सम्राङ् राजभिः सेव्यते । 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाक्षया राज्ञः स सम्राट्' इत्यमरः[१]

  दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः खलक्ष्मीम।

  आस्ये यदास्या न तदा तयोः श्रीरेकश्रियेदं तु कदा न कान्तम्॥५५॥

 दिवेति ॥ दिवारजन्योः क्रमेण दिनरात्र्योः रविसोमाभ्यां सकाशाद्भीते भयं प्राप्ते भीतेर्भयाद्वा चन्द्राम्बुजे स्वलक्ष्मीं स्वशोभां अस्या आस्ये मुखे यदा निक्षिपतः स्थापयतः तदा तयोश्चन्द्रपद्मयोः श्रीः न । सूर्याद्भीतेन चन्द्रेण दिने चन्द्राद्भीतेन कमलेन रात्रौ यदा स्वस्वशोभा भैमीमुखे निक्षिप्ता तदा तद्वयमपि निःशोभं जातम् । अथ च निक्षिपतो न्यासीकुरुतः, तदा चन्द्राम्बुजयोः श्रीः शोभा नास्ति । इदं तु भैमी अमुखं पुनरेकस्य चन्द्रस्य अम्बुजस्य वा श्रिया शोभया कृत्वा कदा कस्मिन्समये दिने रात्रौ वा न कान्तम्,अपि तु दिने रात्रौ च चन्द्रशोभया कमलशोभया च सशोभम् । चन्द्रस्य शोभा रात्रावेव, न दिने । कमलस्य सा दिन एव, न रात्रौ । भैमीमुखं दिवा रात्री च सशोभमित्यर्थः। भैमीमुखं चन्द्रस्य लक्ष्मीरूपं निक्षेपं रात्रौ तस्मै प्रयच्छति दिन भीतत्वात्तस्य । एवं कमलस्य लक्ष्मीरूपं निक्षेपं दिने प्रयच्छति रात्रौ भीतत्वात् । चनादिनिक्षेपोऽपि धनिना यदा याच्यते, तदैव दातव्यो भवति न स्थापनीयश्च भवति । यावञ्चास्ति तावत्तेनैव स्वस्थालंकारः क्रियते । दिवा चन्द्रदीप्त्या रात्रौ कमलदीप्त्या चात्मानमलं करोतीत्यर्थः[२]

  अस्या मुखश्रीपतिबिम्बमेव जलाच्च तातानीमकुराच्च मित्रात् ।

  अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं या चितकं कदाचित ॥५६॥

 अस्या इति ॥ खलूत्प्रेक्षते । पद्मश्चन्द्रश्चोभी तातात् पिटर्जलान्मित्रान्मुकुरादादर्शाश्चाभ्यर्थ्य, अर्थात्प्रतिबिम्बमेव याचित्वा अस्या भैम्या मुषश्रीप्रतिबिम्बमेव सशोभमुखप्रतिबिम्बलक्षणमेव याचितकं याञ्चया प्राप्तं विभूषणं..दाचित् दिने रात्रौ च धत्तः धारयतः। जलोत्पन्नत्वात्पद्मस्य पिता जलम् । वृत्तत्वोज्वालत्वादिगुणयुक्तत्वाद्दर्पणस्य चन्द्रसखत्वम् । पितृमित्राभ्यां याचितं दीयते । याचितकालंकारः कदाचिद्ध्रियते न सर्वदा । उदके यदा प्रतिबिम्बितं भैमीमुखं तदैव पितारं जलं याचित्वा दिने कमलं शोभते । दर्पणे यदा प्रतिबिम्बितं भैमीमुखं तदैव दर्पणं मित्रं याचित्वा रात्रौ चन्द्रः शोभते । नान्यथैतयोः शोभेत्यर्थः । भैमीमुखप्रतिबिम्बेनापि सदृशौ यदि पद्म-


  1. 'अत्रातिशयोक्तिसमासोक्तिकाव्यलिङ्गच्छेकानुप्रासाः' इति साहित्यविद्याधरी
  2. 'अत्र यथाख्यमतिशयोक्तिसमासोक्तिव्यतिरेकालंकाराः' इति साहित्यविद्याधरी।