पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
पष्टः सर्गः

अननुभूतपूर्वस्य वस्तुन आरोपासंभवादित्याशङ्क्य भ्रमान्यथानुपपत्या पूर्वानुभवमुत्प्रेक्षते-अनादयो ये सर्गाः सृष्टयस्तेषां स्त्रक् परम्परा तस्यामनुभूता वा । ननु जन्मान्तरेऽपि भैम्याः परिग्रहे तत्स्मरणे वा प्रमाणं नास्तीत्यत आह-चित्रेवालेख्येषु वा अनुभूता । ननु चित्रेष्वियं निष्क्रयैवानुभूता । यथानुभवं चारोपो भवति । तत्कथमियमालिङ्गतीव, सानुरागमालोकयन्तीव, सप्रणयमनुनयन्तीव, सकेलिकोपमाक्षिपन्तीव, दृश्यत इत्यत आह-यद्वा जितः शम्वरो येन स जितशम्बरो मदनः, तस्य या शाम्बरी शम्बरो दैत्यस्तस्येयं शाम्बरी माया तस्याः शिल्पं निर्माणं जातैव । कामेन शम्वरं जयता तस्य मायाप्यपहृता, तया माययेयं निर्मितेत्यर्थः । यद्वा-शम्बरारेः संबन्धि माया निर्माणकौशलं सा जातेव । मदनस्यैवेदं शिल्पं तच्च मायामात्रहेतुकं, न तु प्रसिद्धवाह्यकारणरचितमिति । मायानिर्मितं चातिसुन्दरं भवति कारणगुणानुरोधाभावात् । यद्वा नलेन सा कामस्य शाम्बरीरूपं शिल्पं कौशलं जातेवालक्षि । शम्वरस्य जितत्त्वात्तन्मायेव भैमीरूपाऽपहृतेत्यर्थः । अथवा जातेवेत्युत्प्रेक्षान्तरम् । प्रागननुभूतापि तदानीं कामस्य शिल्पभूता सा जाता उत्पन्नेवालक्षि । यतोऽपरोक्षमनुभूयते, न च वाध्यते आलिङ्गनालापादिरूपसमर्थप्रवृत्तिजनकत्वादिति भावः । यद्वा शाम्बरीत्युत्प्रेक्षान्तमेव व्याख्येयम् । विरहवशात्सर्वत्र भैमी दृष्टा सा पूर्वमनुभवतारतम्येन स्मृता सत्यारोपात्प्रतीयते शुक्तौ रजतवत् । यद्वा पूर्वमननुभूतैव स्मरेण प्रतिदिशमपूर्वैवोत्पादिता । यथाविद्यकं रजतम् । गन्धर्वनगरवन्मायावशादत्यन्तमसत्येवाननुभूतापि भासत इति समुदायतात्पर्यम् [१]

  अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय ।

  भैमीभ्रमस्यैव ततः प्रसादैर्भैमीभ्रमस्तेन न तास्वलम्भि ॥१५॥

 अलीकेति ॥ मोहवशावलोकिता अलीकभैमी मिथ्याभैमी तया सह तासामाप दर्शनादन्यकन्याप्सरसोऽन्तःपुरस्थिता अप्सरस्तुल्या भैमीव्यतिरिक्ता अबलास्तस्य नलस्य रसाय प्रीतये नाभूवन् । सहदर्शनात्तारतम्यज्ञानस्य संभवादलीकदृष्टाया अपि भैम्याः सकाशादन्या अतिहीना इति तास्वनुरक्तो नाभूत् । किंत्वलीकदृष्टायामपि तस्यामेवेत्यर्थः। तास्वेव भैमीबुद्धिः कथं नेत्यत आह-ततः षष्ठयर्थे तसिः। तस्य भैमीभ्रमस्यैव भैमीभ्रान्तेरेव प्रसादात्सामर्थ्यात्तेन नलेन तास्वन्यकन्यास्वप्सरःसु नालम्भि न प्राप्तः । अलीकदृष्टायास्तस्याः सकाशात्तासामतिहीनत्वात्सादृश्यलक्षणभ्रान्तिकारणाभावाद्भैमीभ्रान्तिर्नोत्पन्ने[२]त्यर्थः॥

  भैमीनिराशे हृदि मन्मथेन दतस्वहस्ताद्विरहाद्विहस्तः ।

  स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदद्विबुद्धः ॥ १६ ॥

 भैमीति ॥ दूत्याङ्गीकाराद्भैमीविषये निराशे वितृष्णेऽपि हृदि विद्यमानान्मन्मथेन दत्तः स्वहस्तः स्वहस्तावलम्बनं यस्मै एवंभूताद्विरहाद्वियोगाद्विहस्तो विह्वलः । हृदि


  1. 'अत्र छेकानुप्रासरूपविशेषालंकारसंकरः' इति साहित्यविद्याधरी । ‘हेतृत्प्रेक्षा' इति जीवातुः ।
  2. 'अत्रोत्प्रेक्षारूपकालंकारौं' इति साहित्यविद्याधरी ।