पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
नैषधीयचरिते

 इतीति ॥ अमी वसुमती पृथ्वी कमितारो वाञ्छाशीला राजान इति कारणात्वदतिथीभवितुं तवातिथयो भवितुं सादराः साभिलाषा न । सङ्ग्रामाभावात्स्वर्ग प्रति नागच्छन्तीत्यर्थः। भैम्यर्थं वसुमतीमेव कमितारो न स्वर्गमिति वा । अहो आश्चर्ये । अभिलाषे विषये भीमभूसुरभुवोभैमीदेवालययोर्दूरमतितरां नृपतीनामन्तरं तारतम्यं महान्विशेषः । यागादिभिः प्राप्यात्स्वर्गादपि भैमीप्राप्तिरधिका इति मन्वत इत्यर्थः। सुरभूदेवकन्या भोग्या, भैम्यास्तस्याश्च महान्विशेषः । अथ च -भीमस्य भूः प्रदेशः, तत्र भैम्या विद्यमानत्वात्कुण्डिनत्रिदिवयोर्महान्विशेषः । अतः स्वर्गाभिलाषो नेत्यर्थः । अथ च कुण्डिनस्य भूमौ विद्यमानत्वाद्राज्ञां भूमावेव निवासात्कुण्डिनमेव समीपं न तु स्वर्ग इति तयोर्महान्विशेषः । कमितारः, ताच्छील्ये तृन् । तस्यार्धधातुकत्वेऽपि (न) पाक्षिकत्वाण्णिङभावः । तद्योगाद्वसुमतीमिति द्वितीया[१]

  तेन जाग्रदधृतिर्दिवमागां संख्यसौख्यमनुसर्तुमनु त्वाम् ।

  यन्मृधं क्षितिभृतां न विलोके तन्निमममनसां भुवि लोके ॥३५॥

 तेनेति ॥ हे इन्द्र, अहं तन्निमग्नमनसां भैम्यासक्तचित्तानां क्षितिभृतां भुवि लोके भूलोके मृधं सङ्ग्रामं यद् यस्मान्न विलोके न पश्यामि, तेन हेतुना जाग्रती स्फुरन्ती अधृतिरसंतोषो यस्यैवंभूतः सन् त्वामनु उद्दिश्य संख्यसौख्यं युद्धजनितं सुखमनुसतुमन्वेष्टुं प्राप्तुं दिवमागामागमम् । किंभूतोहम्-जाग्रद्वर्तमानः। तथा-न विद्यते धृतिधैर्यं सुखं वा यस्येति वा । लक्षणेऽनुः कर्मप्रवचनीयः[२]

  वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि ।

  पृच्छयसे तदपि येन विवेकमोञ्छनाय विषये रससेकः ॥३६॥

 वेदेति ॥ कोऽपि कश्चनापि हन्तृषु धातुकेषु अकरुणं निष्कृपं भवन्तं न विरुणद्धि त्वया सह विरोधं न करोतीति यद्यप्यहं वेद तदपि तथापि त्वं पृच्छयसे युद्धमस्ति न वेति । यतः-विषये अभिलषणीये वस्तुनि रसस्यानुरागस्य सेक आधिक्यं येन कारणेन विवेकप्रोग्छनाय ज्ञानाभावाय भवति । अनुरागवशाकिमपि न ज्ञायते । हन्त आश्चर्य । ज्ञाने सत्यप्येवंप्रश्न आश्चर्यहेतुः । रससेक उदकसेकश्चित्रादेर्मार्जनाय भवतीत्युक्तिः [३]

  एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा ।

  उत्तरोतरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ॥३७॥

 एवमिति ॥ देवऋषीन्द्रे नारदे एवं पूर्वोक्तमुक्तवति सति मघवाननमुद्रा इन्द्रमुखमौनं द्राक् झटिति अभेदि स्वयं भिन्ना । इन्द्रो बभाषे इत्यर्थः । पुनः किमित्युवाचेत्यत आह–हि यतो विभूनां प्रभूणां मञ्जुलतमो रम्यतमः कोऽपि लोकोत्तरः


  1. 'अत्रातिशयोक्तिः इति साहित्यविद्याधरी।
  2. 'अत्र च्छेकानुप्रासः' साहित्यविद्याधरी
  3. 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी।