पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः। केन क इव-दिवसेन दिनतेजसा कृत्वा शशीव । सूर्यस्तावदेव तावत्पर्यन्तमर्चिः समकोचयत् यावदेव यावत्पर्यन्तमेव तन्महसैव कृत्वा नारदो नातप्यतेति वा । शाप- भीत्या स्वस्य तत्कर्तृकतापभीत्या वा तावदेव तेजः प्रकटीकृतवान् , यावता तस्य क्रोधो नोत्पद्यते संतापो वा न भवति । अल्पस्य संकोचे स्वतेजसा तस्याद्भिभवः स्यात् , अधिकसंकोचे स्वस्यैव तन्महसाऽभिभवः स्यात् । तेन युक्तमेव संकोचितवा- नित्यर्थः । सूर्येण समतेजा । नारद इत्यर्थः । अर्थान्तरं तु सुधिया बोद्धव्यम् 1॥ पर्यभूद्दिनमणिर्द्विजराजं यत्करैरहह तेन तदा तम् । पर्यभूत्खलु करैर्द्विजराजः कर्म का स्वकृतमत्र न भुङ्क्ते ॥ ६ ॥ पर्यभूदिति ॥ खलूत्प्रेक्षे । यद्यस्मात्कारणादिनमणिः सूर्यः द्विजराजं चन्द्रं किरणैः कृत्वा पर्यभूत् । तेन खलु तेनैव कारणेन द्विजराजो ब्राह्मणश्रेष्ठो नारदः करैः स्वतेजो- भिः कृत्वा तस्मिन्काले तं सूर्यं पर्यभूयजेष्ट । अहहेत्याश्चर्ये । युक्तमेतत्-अत्र लोके स्वेन कृतं कर्म शुभाशुभात्मकं को न भुङ्क्ते, अपि तु सर्वोऽपि । 'अत्युत्कटैः पुण्यपापैरि- हैव फलमश्नुते' इति न्यायेन । सूर्येण निरपराधे द्विजराजे पराभूते अन्येन द्विजराजेन क्रोधवशादिव स पराभूतः । सूर्यतेजसोपि. तत्तेजोधिकमिति भावः । सूर्यः स्वतेजसा पूर्व नारदं पर्यतापयत्, अतो नारदः क्रुद्धः सन्स्वतेजसा सूर्य पर्यतापयदिति वा3 ॥ विष्टरं तटकुशालिभिरद्भिः पाद्यमर्गघ्यमथ कच्छरुहाभिः । पद्मवृन्दमधुभिर्मधुपर्कं वर्गसिन्धुरदितातिथयेऽस्मै ॥ ७ ॥ विष्टरमिति ॥ अथानन्तरं स्वर्गसिन्धुर्मन्दाकिनी अतिथयेऽभ्यागतायास्मै नारदाय तटकुशालिभिस्तीरजातर्भपङ्क्तिभिः विष्टरं कुशासनमदित ददौ । तथा-अद्भिदकैः पाद्यं पादार्थमुदकम् । तथा—कच्छरुहाभिः पुष्पितलताभिर्दूर्वाभिर्वा अर्ध्यमर्घ्यार्थं वस्तु । तथा-पद्मवृन्दस्य मकरन्दैः कृत्वा मधुपर्कं मधुपर्कार्थं मधुमिश्रं दध्यादि । अ- दितेति सर्वत्र संबध्यते । अतिथये विष्टरादिकं दीयते । मन्दाकिनीं दृष्ट्वा तुतोषेत्यर्थः। पाद्यम् , अर्घ्यम् ‘पादार्घाभ्यां च' इति यत् । मधुना पृच्यते मिश्रीक्रियते।कर्मणि धञ् । 'चजोः-' इति कुत्वम् ॥ स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप । संप्रतीर्य भवसिन्धुमनादिं ब्रह्म शर्मभरचारु यतीव ॥ ४ ॥ स इति ॥ स नारदः अन्तर्मध्ये अगाधं विशालं वियदाकाशं व्यतीत्यातिक्रम्य स्व- र्गेऽपि क्वचित् देशे वर्तमानं नाकनायकस्येन्द्रस्य निकेतनं गृहमाप प्राप्तवान् । कः कि- मिव-यती परिव्राह ब्रह्मेव । किं कृत्वा-अनादि प्रवाहनित्यं भवसिन्धुं संसारसमुद्रं सम्यगतिशयेन प्रतीर्य तीर्त्वा । किंभूतं ब्रह्म-शर्मणः सुखस्य भरः समूहस्तेन सुन्द- १ 'अत्रातिशयोक्तिरुपमा च' इति साहित्यविद्याधरी । २ 'अत्रोत्प्रेक्षार्थान्तरन्यासश्च' इति सा- हित्यविद्याधरी । ३ 'अत्र दीपकम्' इति साहित्यविद्याधरी ।