पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
नैषधीयचरिते

र्यकारिणी । मृतस्यैवंभूतत्वं दृष्टम् । भूतो हि मृतः सन स्त्रीबालादीनां भयंकरो भवति, यत्र विशति तस्य मूर्धानमपि कम्पयति । अथवाऽमृतस्योदकस्य ज्वलनरूपताश्चर्यकारिणी । उदकस्य ज्वलनरूपत्वं कुत्रापि न दृष्टमित्यर्थः। भयंकरः 'मेघर्तिभयेषु-' इति खचि मुम् । श्रितः स्रुष्टश्रितः(?)इति वत् । श्रिञो गत्यर्थत्वात् 'गत्यर्थाकर्मक-' इति कर्तरि क्तः । यद्वादिकर्मणि कर्तरि क्तः। अद्भुतकारी, 'कृञो हेतुताच्छील्य-' इति टः॥

  श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि निक्षिप।
  किमपि तुन्दिलितः स्थगयत्यमुं सपदि तेन तदुच्छ्व मि क्षणम् ॥५६॥

श्रवणेति ॥ हे सखि, त्वं तव मम च श्रवणपूरं चन्द्रमृगमुखे घासार्थं निक्षिपार्पय । प्रयोजनमाह तेनाङ्कुरेण तुन्दिलितो बृहत्कुक्षिः सन् स मृगो यद्यमुं चन्द्रं किमपि स्वल्पमपि स्थगयत्याच्छादयति तत्तर्हि क्षणं क्षणमात्रमुच्छ्वसिमि श्वासमोचनमपि कर्तुं समर्था स्याम् । अङ्कुरपुष्टेनानेन चन्द्रश्चेत्तिरोधर्षितः स्यात्तर्हि तद्दर्शनाभावात्क्षणं मम पीडाभाव इत्ययं(र्थः।) स्थगयति उच्छ्वसिमि, आशंसायां वर्तमानवत् । तुन्दशब्दादस्त्यर्थे तुन्दादित्वा(?)दिलचि 'तत्करोति-' इति णिचि निष्ठा ॥

  असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः।
  पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते॥५७॥

असमय इति ॥ ध्रुवं निश्चितं बुद्धिरसमयेऽप्रस्तावे एवोन्मिषति स्फुरति । कुतः- --नियंनिहित गता यदि तदैव नि रुद्धा स्यात्, तदा चन्द्रा दृष्टा न भवत्तद्य बुद्धिम् जाता । पुनरुपैत्यागमिष्यति तर्हि निरुध्य निर्बन्धं कृत्वा त्वयात्र स्थातव्यमिति संप्रार्थ्य निवास्यते स्थापयिष्यते । पुनरुपैष्यतीति काकुर्वा । सदामावास्यास्थितौ चन्द्रावलोकनं कदापि न स्यादित्यर्थः । करगता, गत्यर्थत्वात्कर्तरि क्तः 'द्वितीया श्रिता' इति समासः । उपैति वर्तमानसामीप्ये वर्तमानवत्प्रत्ययः॥

  अयि ममैष चकोरशिशुर्मुने व्रजति सिन्धुपिबस्य न शिष्यताम् ।
  अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः५८

अयीति ॥ चन्द्रादर्शने हेत्वन्तरसूचनार्थं चशब्दः । अयि हे सखि, ममैष चकोरशिशुः सिन्धुपिबस्य समुद्रपानकारिणो मुनेरगस्त्यस्य शिष्यतां न व्रजति गमिष्यति । पृच्छ इति शेषः । बालत्वेऽभ्यासः सुकरः। तस्य शिष्यत्वे तव किं फलमित्यत आह-तच्छिष्यत्वेनाब्धिमशितुं पातुमधीतवतः समुद्रपानसमर्थस्य चकोरशिशोः पिबतः पानं कुर्वतोऽस्य शशिकराः कति शीकरा बिन्दवो भविष्यन्ति, अपि तु स्वल्पा एव । यः समुद्रं पातुमिच्छति तस्य चन्द्रकिरणपानमतिसुकरमित्यर्थः। एवं सति कदापि च-


१“अत्र श्लेषः' इति साहित्यविद्याधरी। २ 'अत्र हेतुः' इति साहित्यविद्याधरी । ३ ‘अर्था- न्तरन्यासोऽलंकारः' इति साहित्यविद्याधरी । ४ 'अत्र वा' इति पाठस्तिलकजीवातुसुखावबोधासाहित्यविद्याधरीसंमतः ।