पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


८८
नृसिहप्रसादे

दाहछेदौ अत्यन्तोत्तमविषयौ दरिद्रस्यानुत्तमेष्वपि छेदादिना
शुद्धिः ।
योगी

प्रेोक्षणं संहृतानां च बहूनां धान्यवाससाम् ।



“वस्रधान्यादिराशीनामेकदेशस्य दूषणम् ।
तावन्मात्रं समुद्धृत्य शेष प्रोक्षणमर्हति? ॥

शेषं प्रोक्षणमईतीत्युक्तः उद्धृतमुपहतै प्रोक्षितं शुद्धं भवतीति

प्रतीयते । यदा हि राशीकृतानां सर्वेषामपि स्पशों भवेत् तदा प्री
क्षणादेव शुद्धिः । यदा बहूना स्पशोऽल्पानामस्पर्शः तदा सर्वेषां
प्रक्षालनमेव शुद्धेः कारणम् । राशेर्वहुत्वं च पुरुषग्राह्यभाराधि
कत्वम् ।
दवल

“शौर्षरुढकगोमूत्रैःशुद्धयत्याविककौशिकम् ।
सश्रीफलैरंशुघटं सारिष्टं कुतुषं तथा' ।।

गौरसर्षपैः क्षौममिति शेषः । अक्षारमृदुलै कौशिकं शुद्धय

ति, कुतुपः पर्वतच्छागलोमनिर्मितः कम्बलः । अरिष्टफलं केतक,
श्रीफलं विल्वफलम् । इयं शुद्धिरधिकोपघाते वेदितव्या । अल्पे
प्रोक्षणस्यैव युक्तत्वात् ।

“ऊर्णाकौशेयकुतुपशणक्षौमदुकूलकाः ।
प्रल्यशौचाद्भवन्त्येते शोषणमोक्षणादिभिः ।