पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
श्राद्धसारे हविनिर्णयः

तथा ब्राह्मपुराण

‘घृतात् फेन धृतान्मण्डं पीयूषमथ चार्द्रगाः ।
सगुडं मरिचारं तु तथा पर्येपित दधि ।।
तथा तक्रमपेयं च नष्टस्वादं च फेनवत्' इति ।

घृतात् फेनं घृतादुद्धृत्य फेनमपेयं, वृतादुद्धृत्य मण्डं

यत्तदपेयम् । श्राद्गोः प्रसवप्रभृत्यनिष्ठत्तरजस्काया गाः क्षीरमपे
यम् । गुडमरिचोपेत पर्युषितं दधि चापेयम् , यच्च बहुदिनस्थित्या
दीर्ण स्फुटितं, दीर्घकालस्थित्या यच नष्टास्वाद सफेन तच्च न पेयम् ।
तथा मनुः--

‘लोहितान् वृक्षवियांसान् व्रश्चनप्रभवांस्तथा ।
शेलु गव्यं च पीयूषं प्रयत्नेन विवर्जयेदि”ति (१०५) ।

लाक्षाप्रभृतयो लोहिता वृक्षनिर्यासा इत्यभिधीयन्ते लोहित

व्यवहरणात् । निर्वासतयाऽन्येपि पाटलश्वेतपर्णहिङ्कणैरप्रभृतयो
ऽप्रतिषिद्धा इत्यवगम्यते । शेलुः श्लेष्मान्तकः। अभिनवं पयः पी
यूषः। “पीयूषोऽभिनवं पयः’ इत्युक्तेः। तच नवभभूतायाः ।
तथाच हारीत --

न वटप्लक्षोदुम्बरदधित्थनीपमातुलिङ्गानि भक्षयेदिति ।

तथा भविष्ये--

लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ।
वार्ताकं नालिकालायु जानीयाज्जातिदूषितमिति ।

श्वेतकन्दः पलाण्डुविशेषः । नित्यभोजने तु वज्र्यतया उक्ताः

शकाः ।