सामग्री पर जाएँ

पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
नृसिहप्रसादे

गोत्रशब्दः सकारेणैव वक्तव्यः । अनुकसगोत्रेति । यतो
हि सकारः पापं विहन्ति ।

‘सकारेण हि कर्तव्यं गोत्रं सर्वत्र धीमता ।
सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन तं वदेत् ।
कुत्सितं पापं तापयतीति कुतपः इति व्युत्पत्तिः
‘पापं कुत्सितमित्याहुस्तस्य सन्तापको ह्यसौ ।
प्रयुक्तस्तु भवेद्यस्मात् कुतपस्तु ततः स्मृतः।

इति स्मरण च। तत अनुकसगोत्र इति सर्वत्र कर्तव्यं, स्त्रोविष

ये अमुकसगोत्रेति । अत्रायमनुष्ठानक्रमः । तिलान् अपहता असुरा
रक्षांसीत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमवकीर्य राज
तादिपात्रेषु त्रिषु युग्मकुशनिर्मितकूर्चान्तहितेषु शन्नो देवीरिति मन्त्रे
णापः क्षिप्त्वा तिलोऽसीति पूर्वाभिहितमन्त्रेण तिलान् गन्धपुष्पाणि
निक्षिप्य स्त्रधाऽयं इति ब्राह्मणानां पुरतः पात्राणि स्थापयित्व
या दिव्या इति मन्त्रेण पितरिदं तेऽर्यमिति दद्यात् । ता श्रापो ब्रा
ह्मणः प्रतिग्रहीष्यन् स्वध्र्यां अघ्र्य इति मन्त्रेण स्थापयेत्" इत्यर्थं
शौनकस्मरणात् । अथं दीयमाने संस्रवान् पतितान् प्रथमं पितृपात्रे
कृत्वा श्राद्धदेशादुत्तरे दक्षिणी सतिलं कुशस्तंवं निधाय तस्योपरि
पितृभ्यः स्थानमसीति मन्त्रेण अधोमुखं पात्रं कृत्वा तदुपरि अर्प
पवित्रं कृत्वा तृतीयपात्रेणापिधाय तदुपरि अपि कुशं दत्वोत्तरतो
निदध्यात् । पुत्रकामत् पितृपात्रसंस्रवैर्मुखं गृज्यात् ।

‘प्रथमे पितृपात्रे तु सम्भृत्योदकसमृशन् ।
पनक्ति वदनं पश्चात् पुत्रकामो भवेद्यदीति स्मरणात् ।