सामग्री पर जाएँ

पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
श्राद्धसारे श्राद्धकालः

दत्तं जलान्नं च ददाति तृप्ति वर्षायुतं तत्कुलजैर्मनुष्यैः ।
तत्रैव चेद्भाद्रपदा च पूर्व काले तदा यत् क्रियते पितृभ्यः ।
श्राद्धे परा तृप्तिमुपेत्य ते च युगं समग्र पितरः स्वपन्ति ।
वारुणं शतभिषा नक्षत्रम् , अमावास्या इन्दुक्षयान् पुण्य,
युगादित्वात्पुण्यतरा नक्षत्रयोगाच्च पुण्यतमेति ॥
तथा

“शयने षडशीतों च चन्द्रसूर्यग्रहे तथा ।
युगादौ वैधृतौ चैव दत्तं भवति चाक्षयम् ।

अयने षडशीतौ वेति चशब्देन विष्णुपदानां ग्रहणम् । षड

शोति विष्णुपयोर्लक्षणमाह
‘‘कुम्भालिगोहरिषु विष्णुपदं वदन्ति हुँचापमीनमिथुने
षडशीतिरेव ।
अलिः वृश्चिकः, गौर्छषभः, इरिः सिहः, स्त्री कन्या, चापं धनुः,
स्पष्टमन्यत् । श्लोके युगादिग्रहणं मन्वादीन् लक्षयति मन्वादीश्च ।
मत्स्यपुराणे

शाश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ।
आवणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ।
मन्वन्तरादयश्चैते कर्तुश्चाक्षयकारकाः इति ।