पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
नृसिहप्रसादे

शिष्टाख्यापनाय पुनर्रहणम् । ब्राह्मणा श्रायाता वसिष्ठोऽष्यायात
इतिवत् पृथगुपादानं न पौनरुक्त्याय । योगविशेषो व्यतीपातः

‘श्रवणाश्विधनिष्ठाङ्गनागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥

नागदैवतमाश्लेषा । मस्तकं भृगुशिरः । यद्यमा रविवारेण श्र

वणादिनाऽन्यतमनक्षत्रेण युक्ता स व्यतीपात इत्यर्थः । इदमस्मा
भिदनखण्डे विस्तरेण प्रतिपादितम् । गजच्छाया पारिभाषिकी
ग्राह्या न मुख्या, कालप्रक्रमात् । पारिभाषिकत्वं च

“यदेन्दुः पितृदैवत्ये }सश्चैव करे स्थितः ।
तिथिवैश्रवणीया च गजच्छाया प्रकीर्तिता ।

पितृदेवत्यं मघानक्षत्रं, हंसः सूर्यः करे हस्तनक्षत्रे वर्तमा

नः, इन्दुश्चन्द्रमाः पितृदेवत्ये च मघाख्ये नक्षत्रे स्याद्यम्या त्रयोदशी
एतत्रयसयोगात् गजच्छायेति । पुराणान्तरेऽप्येतदेव दर्शितम् ।

‘हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी ।
तिथिवैश्रवणी नाम सा छाया कुञ्जरस्य तु’ इति ।

ग्रहणं चन्द्रद्वयपरगः। यदा कर्तुः श्राद्धं प्रति रुचिर्भवति सो

अपि श्राद्धकालः। च शब्दयुगादिमन्वादि वैधृतिप्रभृतीना ग्रहणम् ।
अत्रापि कालविशेषः श्राद्धाङ्गतयोपादेयः ।
तदुक्तं वृद्धवसिष्ठेन

‘‘त्रिदशाः स्पर्शसमये तृष्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः’ इति ।