पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
[स्कन्धः - ३
नारायणीये


परश्वस्त्वां दिद्दक्षुरागत्य तुभ्यं स्वात्मजां दास्यति, त्वं च तस्यां नव पुत्रीर्जनयिष्यसि, अहं च स्वांशेन तव पुत्रत्वेनावतरिष्यामीत्यनुगृह्य भ [१]वान् जगामेत्यर्थः ॥४॥

स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ ५ ॥

 स इति । भवदीरितनारदोपदिष्टः भवदीरितेन भवता प्रेरितेन नारदेनोपदिष्टः। नारदेन हि देवहूत्यै कर्दमवयः शीलरूपगुणवर्णनपूर्वकं कर्दमाय स्वात्मजां प्रयच्छेति मनुरुक्तः । आगतिप्रतीक्षमिति, अपिनाम मनुरिदानीं स्वां दयितां दुहितरमादायागच्छतीति मार्गे दत्तदृष्टिमित्यर्थः ॥५॥

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६॥

 मनुनेति । उपहृतां सपारिबर्हं सत्कृत्य दत्ताम् । भवदर्चननिर्वृतोऽपि निवृत्तिधर्मनिरतोऽपि दृढया अव्यभिचारिण्या अमायया शुश्रूषणया प्रसादं दधौ ॥६॥

स पुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥ ७ ॥

 स इति । दयिताकामकृते प्रिययाभ्यर्थितस्तदिच्छानुसरणार्थं कृते स्वयोगानुभावेन रचिते वनिताकुलसङ्कुले परिचारकविद्याधरस्त्रीसहस्रपरिवृते नवो नूत्नो मोहनवेषोज्ज्वलः षोडशवर्षीय आत्मा देहो यस्य स नवात्मा । अथवा नव आत्मानः शरीराणि यस्य, सुरतोत्सुकां प्रियामात्मानं नवधा विभज्य रमयन् देवपथेषु नन्दनपुष्पभद्रचैत्ररथादिदेवोद्यानेषु व्यहरत् क्रीडां चक्रे ॥ ७ ॥

शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमु[२]द्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥ ८ ॥

 शतवर्षमिति । वनयानसमुद्यतः तपसे वनं जिगमिषुरपि कान्ताहितद् दुहितृवरप्रदानपुत्रजननादि कुर्वन्, तत्रापि त्वज्जननोत्सुकः ॥ ८ ॥


  1. 'भगवा' क. पाठः.
  2. त्सुकोऽपि' घ. पाठः,