पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[ स्कन्धः - ३
नारायणीये

ग्रहा जिह्वायां ते परपुरुष ! कर्णे च चमसा
 विभो ! सोमो वीर्य वरद ! गलदेशेऽप्युपसेदः ॥ ९ ॥

 त्वचीति । छन्दो गायध्यादि त्वचि गायत्र्यादिच्छन्दांस्येव तव त्वागित्यर्थः । अध्वर्युब्रह्महोत्रुद्गातारश्चत्वार ऋत्विग्यजमाना एव चतुर्होतारः अङ्घ्रावङ्घ्रिषु । स्रुग् जुहूः बदने तुण्डे । इडा पुरोडाशद्रव्यनिधानपात्रविशेष: उदरे । ग्रहाः सोमसङ्ग्रहणपात्रविशेषास्ते जिह्वयाम् । चमसाः भक्षणसाधनद्रव्यनिधानपात्रभेदाः कर्णे कर्णरन्ध्रयोः । सोमः सोमवल्लीरसो वीर्ये रेतः । उपसद: प्रवयार्नन्तरं क्रियमाणा इष्टयः, तास्ते गलदशे ॥ ९ ॥

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
 महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो !
 निरुन्ध्या रोगं मे सकलमपि वातालयपते !॥ १० ॥

 मुनीति । मुनीन्द्रैरित्यादीत्यादिशब्देन प्रायणीयोदयनीये इष्टी ते दंष्ट्रे इत्यादि गृह्यते। स्तवनमुखरैः स्तुतिशब्दजल्पाकैः मोदितं कृतप्रसादं मनो यस्य स तथा । महीयस्या अतिशयेन पूजनीयया मूर्त्या स्वविग्रहेण विमलतरया जगत्पवित्ररूपया कीर्त्या च विलसन् शोभमानः सुखरसविहारी स्वैरं क्रीडमानः स्वधिष्ण्यं वैकुण्ठं संप्राप्तः ॥ १० ॥

इति हिरण्याक्षयुद्ध-तद्वध-यज्ञवराहस्तुतिवर्णनं

त्रयोदशं दशकम् ।


 एवं वराहावतारेण कृतप्रतिष्ठायां भुवि तदाश्रयत्वे[१]न स्वायंभुवस्य मनोः प्रजापालनप्रकारमाह -

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मां ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ १ ॥


  1. 'न म' क. पाठः,