ननु किमर्थं भक्तान् स्तौषि, त्वमपि[१] नामानि पठन्, गुणकथाश्च कथयन्,
मद्रूपं च स्मरन् तेषामन्यतमो भवेत्याशङ्कायामहं तावत् तान् भक्ताननुकर्तुमसमर्थ इत्याह-
गदक्लिष्टं कष्टं तव चरणसेवारसभरे- |
गदेति । बाह्यैर्वातादिभिरान्तरै रागादिभिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं समाधातुमशक्यं भवति, कष्टं वत खिन्नोऽस्मि । हे विष्णो ! मय्यनन्यशरणे दयां कुरु। अहं तु भवत्पादाम्भोजस्मरणे[२] रसिकः यद्यहमरोगोऽभविष्यं तर्ह्यस्मरिष्यमिति सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुहचन कुत्रापि विजने प्रदेशे विवत्स्यामि[३] विशिष्टं वासं करिष्यामि ॥ २ ॥
कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां |
कृपेति । अयि विष्णो! ते कृपा जाता चेत्, तनुभृतां स्त्रीशूद्रादीनां गजमृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं मोक्षोऽपि तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा विविधा आधयो व्याधयश्च तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी नाम, यथा ज्वज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेतादृक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - न के क इति । के के जना अनिशं सर्वदा शोकाभिरहिताः निवृत्तशरीराद्यहंममाभिमानतया तन्मूलाधिव्याधिक्लेशविरहिताः भवद्भक्ताः भवतीश्वरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपरा: सुखगतिम् अभीष्टसञ्चारं न