पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[स्कन्धः - ११
नारायणीये


 भूतेष्विति । एषु भूतेषूत्कृष्टेषु निकृष्टेषु मशकादिष्वपि जगदाश्रयस्याप्रच्युतैश्वर्यस्य तवेश्वरस्यैव जीवरूपेणावस्थानाद् यदैक्यं तस्य स्मृतिरनुसन्धानं तस्य समघिगतिः प्राप्तिः सर्वभूतेष्वन्तर्बहिश्च परिपूर्णतया भगवद्दृष्टिर्भागवतोत्तमधर्मः तत्प्राप्तौ ममाधुनाधिकारो न चेत् त्वयि ईश्वरे प्रेम, त्वत्केषु त्वदीय पुरुषेषु भक्तेष्विति यावद्, मैत्री सख्यं, जडमतिषु मूढेषु कृपा, द्विट्सु शत्रुषूपेक्षा च भूयात् । अत्रेश्वरादिषु भेददृष्टेरपि सद्भावादेते मध्यमभागवतधर्माः । तत्राप्यधिकारो न चेद् अर्चायां प्रतिमायां या समर्चा पूजा तस्यां कुतुकम् आग्रहः उरुतरया ईश्वरगुरुशास्त्रविषयया श्रद्धया विश्वासेन। तथा त्वत्संसेवी[१] अधमभक्तः । सोऽपि द्रुतम् अस्मिन् जन्मन्येव । उपलभते प्राप्नोति । अधमोऽपि क्रमादुत्तमभक्तो भविष्यतीत्यतोऽधमत्वमपि प्रार्थ्यत इति भावः ॥ ८ ॥

 ‘मायाविद्धे तु'(क्ष्लो. ३) इत्युक्तेर्मायास्वरूपजिज्ञासायामाह-

आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती
 जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती ।
त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै
 त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः॥ ९ ॥

 आवृत्येति । त्वत्स्वरूपं तव स्वीयं रूपं ब्रह्म आवृत्य आवरणशक्त्याच्छाद्य। क्षितिजलमरुदादीत्यादिशब्देन स्थूलसूक्ष्मात्मकं भूतपञ्चकं चतुर्विधस्थूलशरीराणि ब्रह्माण्डं च गृह्यते । [२]तत्तदात्मना स्वरूपेण विक्षिपन्ती विक्षेपशक्त्याविर्भावयन्ती जीवान् शरीरिणः भूयिष्ठकर्मावलिविवशगतीन् भूयिष्ठानि काम्यनिषिद्धभेदेन बहुप्रकाराणि कर्माणि तेषाम् आवलिः समूहः तया तज्जन्यादृष्टवासना-


 + “इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।

 नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥”

          (श्री. भा. स्क. ११. अ. ३. क्ष्लो. ३३) इति प्रबुद्धीक्तिः ।


  1. 'वी प्राकृतभ' क. पाठ:.
  2. 'तदात्मना तत्स्व' क. ग. पाठ:.