पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -२७]
१२५
अमृतमथनवर्णनम् ।


सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् ।
भ्रष्टेऽस्मिन् वदरमिवोद्वहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ ४ ॥

 सन्धानमिति । सुरदानवौधे मन्थानं मथनसाधनम् । अस्मिन् मन्दराद्रौ श्रान्तशक्रवैरोचनादिहस्तेभ्यो भ्रष्टे निपतिते सति त्वं खगेन्द्रे गरुडे एकेन हस्तेनोद्धृत्यारोप्योद्वहन् ॥ ४ ॥

आधाय द्रुतमथ वासुकिं वस्त्रां पाथोषौ विनिहितसर्ववीजजाले ।
प्रारब्धे मथनविधौ मुरासुरैस्तैर्व्याजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥ ५ ॥

 आधायेति । अथ वासुकिं वस्त्रां नेत्रम् । विनिहितानि निक्षिप्तानि सर्वबीजजालानि वीरुत्तृणौषधिसमूहा यस्मिन् । व्याजादिति । हरिः सुरैः सार्धमहिपुच्छममङ्गलमित्युच्चैर्वदन् पूर्वं पूर्वकायं जगृहे । ततोऽसुरा वयं ज़्लाघ्याः पुच्छं न गृह्णीम इति तूप्णींभूतान् मुरारीन् अतिसम्माननया भुजगमुखे निर्गमिष्यद्विषान्युल्बणे ॥ ५ ॥

क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धान्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ ६ ॥

 क्षुब्धेति । क्षुब्धे भ्रमितेऽद्रौ मन्दराचले दुग्धाब्धौ निमग्ने सति त्वं कमठतनुं कच्छपरूपं प्राणैषीः प्रणीतवान् ॥ ६ ॥

वज्रातिस्थिरतरकर्परेण विष्णो ! विस्तारात् परिगतलक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ ७ ॥

 वज्रेति । वज्रादतिस्थिरतरपृष्ठदेशयुक्तेन वर्प्मणा मूर्त्या उन्निनेथ उन्मग्नमकरोः ॥ ७ ॥

उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेधुर्हढमिह सम्मदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ८ ॥

 उन्मन इति । द्वितयगणे सुरगणेऽसुरगणे च तदन्यतमरूपेणाविश्य सर्पराजेऽपि सूक्ष्मरूपेणाविश्य तेषां वैवश्यं पीडां परिशमयन् अवीवृधस्तान् बलवीर्यसम्पन्नानकरोः ॥ ८ ॥</poem>