पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १५]
८५
कपिळोपाख्यानम् ।

रुचितुलिततमालं शीलयेतानुवेलं
 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ४ ॥

 विमलेति । विमला यमनियमैर्विशुद्धा मतिर्यस्य स तथा । उपात्तैः स्वीकृतैर्विजितैरित्यर्थः । आसनाद्यैः प्राणायामप्रत्याहारधारणाध्यानसमाधिभिः ममेश्वरस्याङ्गं रूपं दिव्यान्यप्राकृतानि भूषायुधान्येवाङ्को लाञ्छनं यस्य | अनुवेलं सर्वदा शीलयेताभ्यस्येत् ॥ ४ ॥

 संप्रति ज्ञानयोगाद् भक्तिमार्गस्य सुगमत्वमाह --

मम गुणगणलीलाकर्णनैः कीर्तनाद्यै-
 र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री
 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ५ ॥

 ममेति । तत्र भक्तिर्द्वेधा साधनसाध्यभेदात् । ममेश्वरस्य गुणगणा भक्तवात्सल्यादयः, लीलाः चरितानि, तदाकर्णनैः । कीर्तनमाद्यं येषां स्मरणनमस्कारार्चनबन्दनदास्यसख्यात्मनिवेदनानां ते तथा तैः । नवलक्षणया साधनभक्त्येत्यर्थः । परमभक्तिः साध्यभक्तिर्भवतीत्युक्तम् । तस्याः स्वरूपमाह — मथीति । सुरसरिदोघप्रख्या गङ्गाप्रवाहतुल्या चित्तानुवृत्तिः प्रेमात्मिका मनोवृत्तिः, साध्यभक्तिरित्यर्थः। सा भक्तिः। हिरवधारणे । मृत्योः संसारस्य विजेत्री विशेषेणानायासेनैव संसारस्य समूलोन्मूलनीत्यर्थः ॥ ५ ॥

 अथ भक्तिदार्यार्थे केवलपापकर्मणा नरकपातप्रकारमाह-

अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं
 प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः
 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ६॥

 अहहेति । अहहेति खेदे । बहुलया प्रभूतथा हिंसया उपद्रवेण परार्थस्पृहया इतस्ततश्रौर्यादिना सञ्चितैरार्जितैरर्थैर्धनधान्यादिभिः कुटुम्बं पुत्रभार्यादीन् । यातनां रौस्वादिनस्कं विशति। केवलपापकर्मिणो नरकप्रवेशप्रकारश्चोक्तः “यमदूतैर्यातना-</poem>