पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ नानार्थार्णवसंक्षेपे कलिङ्गा कुटजाख्यस्य फले वृक्षस्य यत् पुनः । दृश्यतेऽजयकोशेऽत्र कलिङ्गाख्येत्युपस्थिते || ३३८ ॥ तिक्तकेशर इत्येवं तच्चिन्त्यं कदली पुनः । स्त्रियां स्यात् करिणां केतौ चर्मयोनौ मृगान्तरे || ३३९ ॥ तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः । कदली तु बिले शेते मृदुरूक्षोच्चकर्वुरैः ॥ ३४० ॥ नीलाग्रै रोमभिर्युक्ता सा विंशत्यङ्गुलायता । इत्येवं नृस्त्रियोस्तु स्यात् कढल:च ॥ ३४१ ॥ रम्भायां स्यात् त्रिलिङ्ग्यां तु कन्दली नवपल्लवे । झाटभेदे कच्छरूढेऽजिनयोनिमृगान्तरे || ३४२ ॥ तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः । कन्दली तु श्यामवर्णा हस्तायामा महोदरी ॥ ३४३ ॥ इत्येवं रभसस्त्वाह तं कलापोपरागयोः । स्त्रियां तु क्षणिका ज्ञेया विद्युति क्षणवत्तु यत् ॥ ३४४ ॥ तत्र त्रिः क्षणमात्रावस्थायिवस्तुनि चाथ सः । राजन्ये क्षत्रियों द्वे स्यात् तत्र योनियुते यदा ॥ ३४५ ॥ अर्थे वृत्तिस्तदा द्वे स्तः क्षत्रिया क्षत्रियाण्यपि । पुंयोगात् तु स्त्रियां वृत्तौ क्षत्रियीत्यथ न स्त्रियाम् ॥ ३४६ ॥ कषायस्तुवराभिख्यरसे क्वाथरसे तथा । निर्यासे सौरभे च स्यादनुरागाङ्गरागयोः ॥ ३४७ ॥ रागद्रव्ये रक्तवर्णे रक्तपीतद्वयात्मके । मिश्रवर्णे तथा क्रोधलोभादौ भेद्यवत् पुनः ॥ ३४८ ॥ रक्तवर्णयुते रक्तपीतवर्णद्वयान्विते । सुरभौ तुवराख्येन रसेन च समन्विते ॥ ३४९ ॥ 'प्यु' रू. पाठ:. २. 'ब' क. ख. ङ. पाठ:. ३. 'त्मके' क. ग. पाठ:.