पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ग्रहणेऽन्तर्भावनायामाढकादेः प्रवर्तते । स चायं सम्भवत्यादिसूत्रे सूत्रकृतोदितः ॥ २१६ ॥ तत्र ह्याकृष्यते कर्म तद्धरत्यादिसूत्रतः । ‘असम्भवो हेमम(था?य)जन्तो' 'रेषामसम्भवे' ॥ २१७ ॥ इत्यादिषु प्रयोगेषु भूयिष्ठेषु कृतात्मभिः । अर्थः सम्भवशब्दस्य चिन्तनीयो विचक्षणैः ॥ २१८ ॥ संरम्भः पुनराटोपे क्रोधे सम्भेदवाक् पुनः । भेदे च मिश्रणे चाथ सम्भोगो रतभोगयोः ॥ २१९ ॥ कश्चित् करिकरे ब्रूते वयं तु ब्रूमहे ध्रुवम् । गजस्य करमङ्गुल्या विभज्योर्ध्वे हि सप्तधा || २२० ॥ अङ्गुल्याः परतो भागे तृतीये सम्भ्रमः पुनः । अत्यादरे च संवेगे व्यग्रतायां च साध्वसे ॥ २२१ ॥ सङ्ग्रहस्तु महोद्द्रङ्गे स्वीकारे च समुच्छ्रये । स्त्रीसङ्ग्रहेऽपि संक्षेपे सङ्ग्राहस्तूदितः परैः || २२२ ॥ प्रदेशे फलकादीनां ग्रहणार्थे परैः पुनः। मुष्टिमात्रेऽथ सन्तानः कल्पवृक्षान्तरे कुले ॥ २२३ ॥ परम्परायां चापत्ये सञ्चारस्त्वपि सङ्गतौ । अपि सङ्क्रमणे चारभेदे सोऽपीदृशः स्मृतः ॥ २२४ ॥ संस्थाचराख्यचाराणां गत्वा गत्वा परं प्रति । जिज्ञासते यः संवालः पुनश्चन्द्रस्य दीधितौ ॥ २२५ ॥ विभज्य गजलाङ्गूलं चतुर्धारभ्य मूलतः । द्वितीयभागे संवासः पुनः स्याद् वसने सह ॥ २२६ ॥ राजधान्यां च संयावः पुनः सम्मिश्रणे तथा । भक्ष्यभेदे च तस्यापि तज्ज्ञैर्लक्षणमीरितम् ॥ २२७ ॥ + 'सम्भवत्यवहरति पचति' (५. १. ५२) । * तद्भरति वहत्यावहति भाराद्वंशादि- भ्यः (५. १.५०) । † 'सङ्ग्रहो बृहदु' इति मेदिनी ।' सङ्ग्रहो बृहदुद्धारे' इाते तु हैमः ।