पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अस्त्री शिरसि विद्वांसः पुनरन्ये प्रचक्षते । शिरसः पूर्वभागस्य मध्य इत्यथ विद्विषि ॥ १३६७ ॥ मलीको ना नपि त्वेतदञ्जने सम्प्रचक्षते । मलूको द्वे पक्षिमात्रे सरोजशकुनौ पुनः ॥ १३६८ ॥ शाकटायन आहैनं मण्डूकस्तु द्वयोरयम् । भेकेऽपि पिकभेदे च मण्डूकी तु स्त्रियामियम् ॥ १३६९ ॥ गजस्थापरपादस्य कृतस्य दशधा तथा । उपरिष्टात् समारभ्य तुर्यभागे तथैव च ॥ १३७० ॥ मण्डूकपर्ण्यामप्याह रभसः शब्दवित्तमः । लाङ्गलावयवस्यापि भेदेऽथो राजरक्षिभिः ॥ १३७१ ॥ कृते पुरस्य दुर्गस्य बहिर्भूमौ नृलिङ्गकः । यन्त्रभेदे मयूखस्तु नृस्त्रियोः किरणेऽथ ना || १३७२ ॥ ज्वालादीप्त्यो रथस्याक्षे शङ्कौ चाथ द्वयोरयम् | मयूरो बर्हिणे ना तु स्यादपामार्गसंज्ञके ॥ १३७३ ॥ स्तम्बे च तुलसीभेदे चाल्पपत्रसुगन्धिके । तं मयूरशिखासंज्ञभेषजे रभसोऽपठीत् ॥ १३७४ || क्ली तु तुत्थाञ्जनेऽथो ना धान्ये मङ्गलसंज्ञके । केषाञ्चित् स्यान्मयूरोऽयं तथा चर्मासनान्तरे ॥ १३७५ ॥ व्रीहिकङ्काख्यधान्ये तु मसूरी स्त्री तथा भवेत् । मारिसंज्ञे रोगभेदे वेश्यायां रभसोऽपठीत् ॥ १३७६ ॥ अथ ना मसुरो धान्यभेदे चर्मासनेऽपि च । रभसस्त्वाह वेश्यायां स्त्रियां व्रीह्यन्तरेऽपि च ॥ १३७७ ॥ अथो नपुंसकं विद्यान्मधूलं शब्दकोविदः । सारघादिमधौ ना तु मधूके गिरिसम्भवे || १३७८ ॥ १६७ १. 'लि' च. पाठः २. 'लि' ग. पाठ: ३. 'इस्म म' ग. पाठ: ४. 'च पतिभेके ६. 'लय' ग. ङ. पाठः ७. 'स' ग. पाठः, ग. पाठ:. ५. 'के' क. च. पाठ:.