पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ नानार्थार्णवसंक्षेपे

  • गौरिलस्तु न, ना लोहचूर्णे पुंसि तु भाषितः ।

गौरसर्षप इत्येवं रभसेनातिधीमता ॥ ६९९ ॥ गौरवं तु गुरुत्वे च कुङ्कुमे च नपुंसकम् । सम्माने च त्रिषु पुनर्गुरुसम्बन्धिमात्रके || ७०० ॥ घट्टनं तु हिमे क्लींबं द्वे तुरङ्गोपजीविनि । अना संवरणे चापि चलने चापि घट्टना ॥ ७०१ ॥ घरः पुनरट्टादेरधोद्वारकवाटके । न स्त्री वाद्यविशेषे तु वादित्रलगुडेऽपि च ॥ ७०२ ॥ घर्घरी स्त्री द्वयोस्तु स्यान्मर्त्यजात्यन्तरे विशः । रिन्ध्यां जातेऽथ घृतवद् घृतयुक्ते त्रिषु स्त्रियाम् ॥ ७०३ ॥ रोदस्यौ घृतवत्यौ स्तो घोषयुक्ते तु घोषवान् । त्रिषु घोषवती तु स्त्री वीणायामथ न स्त्रियाम् ॥ ७०४ । चरण: प्राणिनां पादे वृक्षमूले च ना पुनः । बहूवृचादौ नपि त्वेतदाचारे गतिभक्षयोः ॥ ७०५ ॥ चपलस्तु त्रिषु ज्ञेयश्चञ्चलेऽप्यनवस्थिते । दुर्विनीते च शीघ्रं च पारते तु पुमानयम् ॥ ७०६ ॥ तुरुष्काख्ये च निर्यासे मर्कटे तु द्वयोरथ । पिप्पलीविद्युतेस्तु स्त्री लक्ष्म्यां तु रभसेरिता ॥ ७०७ ॥ तेनैव करिपिप्पल्यां चपलाथ त्रि चञ्चलः । चले विद्युति तु स्त्री स्याल्लक्ष्म्यां च पवने तु ना ॥ ७०८ ॥ खञ्जरीटखगे तु द्वे चञ्चत्कस्तु पुमान् मणौ । अतीव भाखरे तु द्वे खद्योते दर्दरेऽपि च ॥ ७०९ ॥ १. 'तां तु स्त्री' क. छ. च. पाठः, 'गौरिलस्तु पुमान् लोहचूर्णे स्याद् गौरसर्षपे' इति तु मेदिनी । + 'वैश्याद्वैदेहक विप्रा. रन्ध्री घर्घरम्' (पृ. ७३. को. १८) इति तु वैजयन्ती ।