पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० नानार्थार्णवसंक्षेपे दुश्चिकित्सविषे वृश्चिकान्तरे स्यात् स्त्रियां पुनः । नमस्कारीसमाख्यायां क्षुद्रवल्ल्यां तथैव सा ॥ ६०९ ॥ शर्माफलासमाख्ये च जलशाकलतान्तरे । खशयस्तु द्वयोर्भेके त्रिस्तु खे शयितर्यसौ ॥ ६१० ॥ खराङ्गस्तु द्वयोर्भेके कर्कशाङ्गे तु भेद्यवत् । खण्डिका तु स्त्रियां प्रावृड्रात्रौ शकलिते पुनः || ६११ ॥ त्रिः स्याद् विरहिते तस्य वाक्ये च स्त्री तु खण्डना । वैधव्यलक्षणोपेता या कन्या शास्त्रदर्शिता ॥ ६१२ ॥ अविवाह्यासु कन्यासु तस्यां स्त्रीशण्डयोः पुनः । खण्डनं खण्डना चेति धातोः खण्डयतेः कृतौ ॥ ६१३ ॥ खपुरो ना पूगवृक्षे पूगपट्टे च शाविनाम् । निर्यासे भद्रमुस्ते च रभसः प्रोक्तवानमुम् ॥ ६१४ ॥ गन्धद्रव्यविशेषे च बालसंज्ञेऽजयः पुनः । अत्रार्थे शण्डमाचष्टे क्ली तु पूगफले स्मृतम् ॥ ६१५ ॥ अस्त्री तु खण्डलं खण्डे चीरवस्त्रेऽप्यथ द्वयोः | खञ्जनः खञ्जरीटे क्ली पुनः खञ्जनकर्मणि ॥ ६१६ ॥ खजकस्तु पुमान् मन्थदण्डे द्वे रसपाचके । खजाकस्तु पुमान् मन्थदण्डे क्ली तु विहायसि ॥ ६१७ ॥ शरीरे च खजाका तु स्त्री दर्व्यामसतीस्त्रियाम् । खनको मूषिके द्वे स्यान्मर्त्यजात्यन्तरे तथा ॥ ६१८ ॥ राज्ञीमागधयोर्जाते त्रि तु स्यादवदारके । तथा स्याद् भूमिवित्तज्ञे खनित्रं तु नपुंसकम् ॥ ६१९ ॥ कुद्दाले स्यात् खनित्री तु दण्डभेदे तपस्विनाम् । विशास्विकासमाख्ये स्यात् खचितं त्वभिधेयवत् ॥ ६२० ॥ १. 'पावके' ग., 'वा' च. पाठ: २. 'मं' क. पाठः,