द्वयक्षरकाण्डे नानालिङ्गाध्यायः । स्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा । तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वे परत्र तु ॥ १४५७ ॥ स्वक्षी स्याच्छोभने त्वक्षे परवल्लिङ्गतां स्मरेत् । स्वजस्तु शोभने छागे द्वयोरौरसपुत्रयोः ॥ १४९८ ॥ प्राणिजात्यन्तरे त्रिस्तु स्वशब्दार्थसमुद्भवे । प्रशस्त जार्थयुक्ते च प्रशस्ते त्वजवस्तुनि ॥ १४५९ ॥ परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु । स्तन्यं क्षीरे तु तत् क्लीवं सरस्तु नरि मारुते ॥ १४६० ॥ क्षीरे तु क्ली द्वयोस्त्वेष निषादशनकसुते | मर्त्यजात्यन्तरे त्रिस्तु स्थिरस्य प्रतियोगिनि || १४६१ ॥ सलस्तु देवदेवस्य भृत्ये भृङ्गिरिटाह्वये । पुमान् पत्राङ्गशब्देन प्रसिद्धे तु नपुंसकम् || १४६२ ॥ तु भेषजेऽथ सटा च स्त्री जटायां व्रतिनामथ । सिंहस्य केसरे न(पू)स्त्री* मर्त्यजात्यन्तरे पुनः ॥ १४६३ ॥ द्वे भटीविप्रजेऽथ स्युना॑वृद्भेदे ( ऽथ ? नृ) भूमनि । सल्वाः सल्वा पुनः स्त्रीत्वे क्षत्रियाभेद ईरिता ॥ १४६४ ॥ सङ्गो ना सङ्गमे युद्धे लवणे तु नपुंसकम् । तु सैन्धवाख्येऽथ नप् स्त्रीत्वे स्थली स्थलमिति द्वयम् ॥ १४६१ ॥ विद्यादुन्नतभूभागे टाबन्ता तु स्थला स्त्रियाम् । क्षेत्रादिनिम्नभूमिष्ठसलिलस्य निवारणे ॥ १४६६ ॥ कृत्रिमे मृन्मये सन्नं त्वनुदात्तविशीर्णयोः । अल्पे चाप्यवसन्ने च भेद्यलिङ्गं समामनन् ॥
१४६७ ।। १. 'भृ' क. ग. घ. ङ. पाठ:. २. 'ला:' ख, पाठः. ३. 'ल्या' ख. पाठः. 'सटा जटाकसरयोः' इति मेदिनी | १६७