पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे तदा श्येता तथा श्येनी मृगे द्वे त्वपि पक्षिणि । श्येनसंज्ञतृणप्राणिजात्योः स्यादेतयोर्यदा ॥ १४२१ ॥ स्त्रयर्थे वृत्तिस्तदा रूपं श्येतीत्येवाथ पुंस्ययम् । श्येन: सामान्तरेषु स्यात् ऋतुभेदे जिघांसतः ॥ १४२२ ॥ द्वे त्वश्वे पत्रिसंज्ञे च पक्षिभेदे स्त्रियां पुनः । श्येना स्यात् प्राचिकासंज्ञपक्षिजातावथ द्वयोः ॥ १४२३ ॥ शकुनावप्यजगरे श्येत्यः श्रेष्ठः पुनस्त्रिषु ।" स्यात् प्रशस्यतमे क्ली तु ताम्रे श्रेणिस्तु नृस्त्रियोः ॥ १४२४ ॥ समानजातीयानां स्याच्छिल्पिनां संहतावथ । व्याचष्टेऽष्टादशगणविशेष इति शब्दवित् ॥ १४२५ ॥ हर्षनन्दी तथा पौधारायामपि नप् पुनः । श्रेयः सामविशेषे स्याद् होइयेमानुकोद्भवे ॥ १४२६ ॥ तथा मोक्षे च धर्मे च मङ्गले त्रि तु तद्वति । स्यात् प्रशस्यतरे चाथ स्त्र्यर्थे वृत्तिर्यदा तदा ॥ १४२७॥ एतयोरर्थयो रूपं श्रेयसीति स्त्रियां पुनः । श्रेयसी हस्तिपिप्पल्यां स्यात् पथ्यापाठयोरपि ॥ १४२८ ।। शैलस्तु भूधरे पुंसि शिलासम्बन्धिनि त्रिषु । वृत्तौ शीलभवायां स्त्री शैलीत्येवं प्रचक्षते ॥ १४२९ ॥ शैखः पुनर्द्वयोर्मर्त्यजातिभेदे यदुद्भवः । अनन्यपूर्वब्राह्मण्यां विप्रव्रात्यात् प्रकीर्तितः ॥ १४३० ॥ शिखासम्बन्धिनि पुनस्त्रिरथो शोणवाङ् नरि । हिरण्यबाहुसंज्ञे स्यान्नदभेदेऽपि पादपे ॥ १४३१ ॥ टुण्डुसंज्ञे रक्तवर्णे त्रि तु तद्वति तत्र च । स्त्र्यर्थे शोणी च शोणा च घोटभेदे तु स द्वयोः ॥ १४३२ ॥ १. 'दु' ङ. पाठ:.