पृष्ठम्:नवरात्रप्रदीपः.djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
प्रतीपन्निर्णयः

सप्तम्यामस्तगायां यदि विशति
 गृहं पत्रिका श्रीफलाढ्या
राज्ञः सप्ताङ्गराज्यं जनसुखम-
 खिलं हन्ति मूलऽनुरोधात् ॥
तस्मात्सूर्योदयस्थां नरपति-
 शुभदां सप्तमीं प्राप्य देवीं
भूपालो वेशयेत्तां सकलज-
 नहितां राक्षसर्क्षं विहाय ॥

    इतिज्योतिषवाक्याऽनुरोधात् । यदपि नन्दिपुराणे--

 शरत्काले महापूजा क्रियते या च वार्षिकी ।
 सा कार्योदयगामिन्यां न तत्र तिथियुग्मता ॥

    इत्यादि, तदपि सप्तमीपूजाविषयम् ।

 युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया।
 रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ।

 इतिदेवीपुराणे सप्तमीपदश्रवणात् । एवमन्यदपि व्यवस्थाप्यम् । यदपि चित्रावैधृतिपरिहारस्मरणं लोके, तन्मूलस्य पूर्वोदाहृतनिबन्धेष्वन्यतमेनाSप्यनुदाहरणाद् भ्रममूलमित्येव गम्यते । सति तु तस्मिन्नेतावतामभियु-