पृष्ठम्:नवरात्रप्रदीपः.djvu/५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
नवरात्रपदीपे-

 हेमाद्रौ धौम्यवाक्यमपि । अत्र च पूर्वोत्तरार्द्धाभ्यां नामधेयत्वगुणविधित्वे स्पष्टीकृते । तद्यथा-यदाश्विने शुक्लपक्षे नवरात्रव्रतं कर्त्तव्यं तत्प्रतिपदादिक्रमेण यावन्नवमीति । अन्यथा गुणे गुणान्तरविधानाऽऽपत्तेः । एवं च

मासि चाश्वयुजे शुक्ल नवरात्रे विशेषतः
सम्पूज्य नवदुर्गां च नक्तं कुर्यात्समाहितः ॥

 

इति सप्तम्यन्तेनऽभिहिते कर्मण्येव प्रधानभूतपूजानन्तरमङ्गभूतनक्तविधानमुपपद्यते । तेन तत्कालपरत्वे युज्यते । अङ्गस्य तस्याङ्गन्तराऽपेक्षाऽभावात् । “गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति न्यायात् । यत्तु श्रुत्या गुणविधित्वं, न तु लक्षणया। कर्मकालत्वमिति कैश्चिदुक्तं तद्गुणविधित्वेऽर्थान्तरवाचि- नामुद्भिदादीनामर्थान्तरे यागे वृतिर्मत्वर्थलक्षणया स्यात्। उद्भिद्वता यागेनेतिनामधेयत्वे तु श्रुत्येतिपार्थसारथि लिखनविरुद्धम् । नामधेयेषु सर्वेषु श्रुतिवाक्यस्यैव शक्तिग्राहकवात् । न च तत्र तत्र यजतिसामानाऽ धिकरण्येन नामधेयत्वम् , प्रकृते तु न तथेति वाच्यम् । ‘नवरात्रव्रतं शुभम्" इत्यादिवाक्ये कर्मसा-