पृष्ठम्:नवरात्रप्रदीपः.djvu/३५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२९
ग्रन्थपरिचयः

 इतिवचनविरोधो भट्टमते । तथाहेि सङ्कल्पक्षणमारभ्य पारणान्तक्षणपर्यन्तं विततभावनान्तर्निष्पातित्वेन पारणस्याऽपि व्रतरूपत्वम् । व्रतत्वेपि प्रधानत्वं नेत्यन्यदेतत् । नैतावना व्रतत्वक्षतिः । तथा च नवम्यनुष्ठीयमानव्रतस्य नवमीपर्यन्तता सिध्यतीति न दोषः । नन्विदं व्रतप्रयोगबहिर्भूतमेवाङ्गमस्तु व्रतान्ते तद्विभोजनम्" इत्यनेन व्रतसमाप्तौ तच्छ्रवणात् । यथा "संस्थाप्य पौर्णमास वैमृधमनुनिर्वपति" इत्यनेन पौर्णमाससमाप्तौ वैमृधो विधीयते । संस्थापनान्तशब्दयोश्च पर्यायत्वादितिचेत् मैवम् । "पारणान्तं व्रतं ज्ञेयम्" इत्यस्य पारणया अन्तः समाप्तिर्यस्येत्यर्थपरत्वेन पारणस्य व्रतप्रयोगबहिर्भावाऽभावात् । तथा च पूर्वोत्तरयोत्तयोरेकार्थत्वमेव इति स्थिते, दशम्यां पारणायां क्रियमाणायां व्रतस्य दशरात्रताऽऽपत्तिः नवमीपारणायां तु नैष दोषः । किं च यथा नवमीपारणाविधायकानि वचनानि बहूनि श्रूयन्ते न तथा दशमीपारणाविधायकानि । किं च यावत्कालं पारणं न कृतं तावत्पर्यन्तं प्रतितिथिः प्रधानतया विहिता पूजा करणीयैव । अन्यथा व्रतलोपः स्यात्, तेन दशमीपारणापक्षे दशम्या मुख्यभूता पूजा प्रातः करणीयैव, तदनन्तरं पारणं करणीयमितीत्यपि व्रतस्य दशरात्रताऽऽपत्तिः । भट्टमते च नवरात्रे प्रातःपूजैव मुख्या इति नवमीपारणावादिप्रकृतग्रन्थपक्ष एव समुचितं इति निश्चीयते । ननु भट्टमते उपवासविशिष्टायाः पूजयाः प्राधान्येन दशम्यां च उपवासरहितपूजायाः क्रियमाणतया न दशम्यां मुख्यभूता पूजा क्रियते