पृष्ठम्:नवरात्रप्रदीपः.djvu/२३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१७
ग्रन्थपरिचयः

यन्ति । तत्तत एवाऽवसेयम् । लोके चेदानीं धर्माधिकारिवंश्यास्तदनुयायिनो द्वित्रानन्यांश्च विहाय सर्वेऽपि द्वितीयाविद्धयामेव प्रतिपदि देवीपूजनादिक समाचरन्तो दृश्यन्ते । रघुनन्दनभट्टाचार्यादयस्तु स्वनिबन्धेषु पूर्वाह्णस्यैव कर्मकालत्वं मन्यन्ते । स्मृतिकौस्तुभकारानन्तदेवास्तु बहुना विस्तरेण खण्डनमण्डनपूर्वकं प्रतिपन्निर्णयं विधायान्ते 'यैरमाविद्धायां प्रतिपदि कुलपरम्परया देवीपूजनादिकमनुष्ठीयते तैरमाविद्धैव मुख्यतया ग्राह्या । यैश्च कुलपरम्परया द्वितीयाविद्धायां पूजादिकमनुष्ठीयते तैर्द्वितीयाविद्धैव ग्राह्या’ इति वदन्ति । प्रकृतग्रन्थे अमाविद्धैव प्रतिपत् मुख्यतया गृहीताऽस्ति । तथाह्येतेषां मतम् --

नक्तव्रतमिदं पार्थ सर्वपापप्रणाशनम् ।
नवरात्राऽभिधं कर्म नक्तव्रतमिति श्रुतम् ।

 “नक्तव्रतमिदं यस्मात्”

सम्पूज्य नवदुर्गो च नक्त कुर्पात्समाहितः ।

 इत्यादिवचनैः प्रधानभूतायाः पूजाया नक्तकाले विहितत्वात् नक्तव्रतमेवेदम् । ततस्तद्व्यापिन्येव प्रतिपद्ग्राह्येति युक्तमेव । किं च द्वितीयाविद्धाविधायकानां बहूनां वचनानां विंशत्यधिकेषु हेमाद्रिमाधवीयादिप्रामाणिकनिबन्धेषु अपरिदृश्यमानतया अन्यरीत्याऽपि व्यवस्थायाः सम्भवेन च अमाविद्धैव प्रतिपद्ग्राह्येति सिद्ध्यति । यान्यपि

वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव ! ।