पृष्ठम्:नवरात्रप्रदीपः.djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
नवरात्रप्रदीपे-

वचनम्---

  आश्विने दशमीं शुक्लां पूर्वविद्धां न कारयेत् ।
  एकादश्या युता कार्या राजपट्टाऽभिषेचने ॥
  सूर्योदये यदा राजन् ! दृश्यते दशमी तिथिः ।
  आश्विने शुक्लपक्षे तु विजयां तां विदुर्बुधाः॥इति।

 तद्राजपट्टाऽभिषेचने इति विशेषणोपादानात्तन्मात्रविषयम् । अतो न विरोधः । द्वितीयदिने सायं दशम्यभावे मध्याह्नादुपरि सद्भावे च दिवैवैकादशे मुहूर्ते ।

  आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः ।
  एकादश्यां न कुर्वीत पूजनं चापराजिताम् ॥
  दशमी यः समुल्लङ्घ्य प्रस्थानं कुरुते नरः ।
  तस्य संवत्सरं राज्ये न काऽपि विजयो भवेत् ॥

इतिस्कान्दे एकादश्या प्रस्थाने दोषश्रवणात्। एतेन दशमीनिर्णयोऽपि व्याख्यातः । तदुक्तं विश्वरूपे--

  नवम्या सहिता कार्या दशम्याश्वयुजे सिता।
  एकादश्या युता जातु न कार्या जयकाङ्क्षिभिः।।इति ।

अन्यदप्यत्राऽश्वपूजानीराजनादि ग्रन्थान्तरादवगन्तव्यं विस्तरभिया नेहोक्तमिति ।