सामग्री पर जाएँ

पृष्ठम्:नवरात्रप्रदीपः.djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
नवरात्रप्रदीपे-

फलसम्बन्धकरणमिति । प्रकृते त्वेकेनैवोभयमपीति । अत एव रुद्रयामलीयवाक्येन सप्तोपवासानां सप्तमीपर्यन्तमेवाऽनुष्ठानात्पारणस्य च नवम्या विहितत्वादष्टभ्यां किं कार्यमित्याकाङ्क्षायामुपवासपारणविलक्षणं किंचिद्भक्षणमुक्तम् ।

  उपवासनिषेधे तु किंचिद्भक्ष्यं प्रकल्पयेत् ।

 इति न्यायात् । निषेधश्च सप्तसङ्ख्याविधानार्थः । तस्मान्न विरोधः । अथ चाष्टमदिने किंचद्भक्षणेऽपि

  उपावृत्तस्तु पापेभ्यो यस्तु वासोगुणैः सह ।
  उपवासः स विज्ञेयः सर्व्वभोगविवऽर्ज्जितः ॥

 इत्युपवासलक्षणसत्वान्न विरोधः । न च किंचिद्भक्षणे सर्व्वभोगविवर्जितत्वं नास्तीति वाच्यम् । अत्र किंचिच्छब्देनाव्रतघ्नस्य पयोमूलादेर्ग्रहणात् । तदुक्तम्--

  अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
  हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ इति ।

 तेन पयोमूलादिभक्षणेऽप्युपासत्वं न हीयत इति सर्व्वभोगविवर्ज्जितत्वमस्त्येव । अथ वा नित्यवत्कृतस्याऽपि तस्याऽष्टम्युपवासविधिबलात्सामर्थ्यबलाच्चाश-