पृष्ठम्:नवरात्रप्रदीपः.djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
नवरात्रप्रदीपे-

किंचिद्भक्षणेऽप्युपवासस्यऽक्षत्याऽष्टोपवाससिद्धावुपवासानामष्टसङ्ख्यानुरोधान्नवमदिने पारणस्याऽऽवश्यकत्वान्नवम्यां पारणं सिध्यति । यथा चाऽष्टमदिने किंचिद्भक्षणेऽप्युपवासवाऽक्षतिस्तथोपरिष्टाद्वक्ष्यामः ।
    अथ चतुर्थः ।
भविष्यपुराणे--

 प्रथमा द्वितीया तृतीया चतुर्थी च नराधिप !।
 एतास्तु एकभक्तेन प्रवदन्ति मनीषिणः ॥
 पञ्चमी च तथा षष्ठी सप्तमी चाऽष्टमीषु च ।
 उपवासपरो भूत्वा पूजयेच्चण्डिकां बुधः ॥ इति ।

 अत्र सर्वोपवासाऽसमर्थस्य चतुर्थीपर्यन्तमेकभक्तमुक्त्वा पचमीमारभ्यऽष्टमीपर्यन्तमेवोपवासगणनया नवम्यां पारणमर्थतोऽत्रगम्यते । नन्वष्टस्यामुपवासे अष्टावुपवासा भवन्ति तथा च तृतीयहेतुसाधकं रुद्रयामलीयं "उपवासस्य सप्तकम्’ इति वचो विरुध्येतेति चेत् नैष दोषः । अष्टम्युपवासस्य काम्यत्वेन नवरात्रबहिर्भूतत्वात् । काम्यत्वं चाऽस्य भविष्योत्तरे--