पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
प्रथमोद्योतः


 तस्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीय. मणीयसीमिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम् ,


लोचनम्

भिधानाभिधेय लक्षणो ध्वनिशास्त्रयोर्वक्तृश्रोत्रोर्युत्पाद्यव्युत्पादकभावः सम्बन्धः, विमतिनि- वृत्त्या तत्स्वरूपज्ञानं प्रयोजनम् , शास्त्रप्रयोजनयोः साध्यसाधनभावस्सम्बन्ध इत्युक्तम्।

 अथ श्रोतृगतप्रयोजनप्रयोजनप्रतिपादकं 'सहृदयमनःप्रीतये' इति भागं व्याख्या- तुमाह-तस्य हीति । विमतिपदपतितस्येत्यर्थः । ध्वनेः स्वरूपं लक्षयतां सम्बन्धिनि

बालप्रिया

'तेन ब्रूमः' 'केचिदूचुः' 'तेन ब्रूमः' इति पृथक् पृथक् योजना लभ्यत इति भावः । अवतारिकोत्तरीत्या 'तेन तत्स्वरूपं ब्रूम' इत्यनेन प्रदर्शितमभिधेयादिकं श्रोतृवृत्त्यङ्गं प्रसङ्गादर्शयति-ध्वनिस्वरूपमित्यादि अभिधानाभिधेयलक्षण इति । अभिधायकाभिधेयभावस्वरूप इत्यर्थः। अत्र व्युत्क्रमेण निर्देशः। एवमुंपर्यपि बोध्यम् । प्रतिपाद्यप्रतिपादकभाव इति यावत् । सम्बन्ध इत्यनेनान्वयः। व्युत्पाद्येति । व्यु- त्पादकव्युत्पाद्यभाव इत्यर्थः। विमतिनिवृत्त्येति । ध्वनिस्वरूपविषयकविमतिनि- वृत्त्या सहितमित्यर्थः । विप्रतिपत्त्युपन्यासपूर्वकं तेन ब्रूम' इत्युक्त्या विमतिनिवृत्तेः प्रयोजनत्वं लभ्यत इति भावः। प्रयोजनमिति । तत्स्वरूपवचनस्य प्रयोजनमित्यर्थः । साध्येति । साधनसाध्यभाव इत्यर्थः । इत्युक्तमिति । तेन 'तत्स्वरूपं ब्रूम' इत्यनेनो- क्तार्थाः प्रदर्शिता इत्यर्थः।

 अथेत्यादि। श्रोतृगतेति । श्रोतृगतं प्रयोजनं पूर्वोक्तं विमतिनिवृत्त्या सह ध्व- निस्वरूपज्ञानं, तस्य यत्प्रयोजनं प्रीतिरूपं तत्प्रतिपादकमित्यर्थः । 'लक्षयता मित्यादि- भागस्यैव 'सहृदयेत्याधंशव्याख्यारूपत्वादवशिष्टस्य तच्छेषत्वाच्च व्याख्यातुमाहे त्युक्तं, न तु व्याचष्ट इति । तच्छब्दस्य प्रकरणसिद्धमर्थमाह-विमतीति । व्यवहि- तत्वेनान्वयं दर्शयन् व्याचष्टे-ध्वनेरित्यादि । वृत्तौ 'आनन्द' इति प्रीतिपदार्थकथनम् ।


 १. अनुवन्धचतुष्टय मित्यर्थः । अनुबन्धत्वञ्च प्रवृत्तिप्रयोजकज्ञानविषयत्वम् । तत्प्र- योजकञ्च ज्ञानं 'इदं मत्कृतिसाध्यम्' 'इदं मदिष्टसाधनम्' इति । तत्रेदंपदेन विषयः, मत्पदेनाधिकारी, इष्टपदेन प्रयोजनं, साधनपदेन च साध्यसाधनभावस्सम्बन्धश्चा- भिलप्यते ।

 २. अभिधायकत्वनिरूपिताभिधेयत्वमित्यर्थः । वैयाकरणमतेन प्रतियोग्यनुयोग्यु- भयनिष्टधर्मस्य सम्बन्धतास्वीकारादिति भावः ।

 ३. तच्छब्दस्य वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तत्वा- दित्यर्थः ।