पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
सटीकलोचनोपेतध्वन्यालोके


पुनरपरे तस्याभावमन्यथा कथयेयुः- न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्त-


लोचनम्

एवं हि कृतेऽपि न किञ्चित्कृतं स्यादुन्मत्तता परं प्रकटितेति भावः ।

 यस्त्वत्राभिप्रायं व्याचष्टे-जीवितभूतो ध्वनिस्तावत्तवाभिमतः, जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तमलङ्कारकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमिति । तस्येदं सर्वं स्ववचनविरुद्धम् । यदि हि तत्काव्यस्यानुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तचिरन्तनैरनुक्तमिति प्रत्युत लक्षणार्हमेव भवति । तस्मात्प्राक्तन एवात्राभिप्रायः ।

 ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालङ्कारान्तर्भूतश्च, तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्कय तृतीयमभाववादमुपन्यस्यति पुनरपर इति ! कामनीयकमिति कमनीयस्य कर्म । चारुत्वधीहेतुतेति यावत् ।

बालप्रिया

द्वन्मनोग्राहिता, को दोष इत्यत आह–एवं हीत्यादि । अभिनवपरिकल्पितसहृदय- हृदयाह्लादकारित्वात्मकलक्षणे कृते, किञ्चिल्लक्षणं कृतन्न स्यात् , परन्तु उन्मत्ततेव प्रकाशिता स्यान्न तु विद्वत्तेत्यर्थः ।

 व्याख्यानान्तरमनुवदति-यस्त्वित्यादि । अभिप्रायं द्वितीयाभाववाद्यभिप्रा यम् । जीवितेति । ध्वनिजीवितभूतोऽभिमत इति सम्बन्धः। तच्चेति। ध्वन्या- त्मकं जीवितम्चेत्यर्थः । न काव्यमिति । जीवितभूतो ध्वनिर्न काव्यमलङ्कारका रैरनु- क्तत्वादिति प्रयोगः । तद्बषयति-तस्येत्यादि । खवचनविरोधमुपपादयति-यदि हीत्यादि । तत् ध्वनिस्वरूपम् । अनुप्राणकं जीवितम् । तेन पूर्वपक्षवादिना अभाववादिना । अङ्गीकृतं यदीति । जोवितभूत इति सिद्धवचनादशीकारः स्फुट एवेति भावः । तत् तर्हि । अनुक्तमिति । अनुक्तत्वाद्धेतोः । लक्षणाहमेवेति । लक्ष- यितव्यमेवेत्यर्थः । न निषेधार्हमिति भावः । प्राक्तनः पूर्वोत्तः । अभिप्रायः अभा. ववाद्यभिप्रायः ।

 तृतीयमवतारयति--जन्वित्यादि । यद्येवं किं भवतः प्रयासेनेत्यत आह-तथा- पीति । एवमप्यसौ ध्वनिरित्यमुया भाषया जीवितमिति न केनचिदुक्तः ध्व- निः काव्यात्मेति केनापि लक्षणकारेण नोक्तमित्यर्थः । अतो लक्षणपुरस्सरन्तद्वक्तुमस्म- त्प्रयास इति भावः । इत्यभिप्रायं ध्वनिवाद्यभिप्रायम् । आशङ्कयेत्यनन्तरं प्रवर्तित- मिति शेषः । वुजो भावर्थत्वे चारुत्वहेत्वन्तर्भावोक्तिरनुपपन्ना स्यादतो व्याचष्टे-कम- नीयस्य कर्मेति । फलितमाह-चारुत्वेति । काव्यस्येत्यर्थात् । वृत्तौ 'तस्ये'त्यस्य ध्वनेरित्यर्थः । 'चारुत्वहेतुष्वि'त्यस्य गुणालङ्कारेष्वित्यर्थः । -