पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
सटीकलोचनोपेतध्वन्यालोके


चरम् । रीतयश्च वैदर्भीप्रभृतयः । तव्यतिरिक्तः कोऽयं ध्वनिनामेति ।


लोचनम्

रीतयश्चेति । तदनतिरिक्तवृत्तयोऽपि गताः श्रवणगोचरमिति सम्बन्धः । तच्छन्दे- नात्र माधुर्यादयो गुणाः, तेषां च समुचितवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां सङ्घातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं गौडीयवैदर्भ- पाञ्चालदेशहेवाकप्राचुर्यदृशा तदेव त्रिविधं रीतिरित्युक्तम् । जातिर्जातिमतो नान्या, समु-

बालप्रिया

इत्यभिप्रायेणेति । ‘गता' इत्यादिग्रन्थ उक्तार्थपर इत्यर्थः । रीतयश्चे त्यत्र समुचि- तपदानुषञ्जनेन पूरयन्नाह-तदित्यादि । तच्छब्दोऽत्र गुणपरामर्शक इत्याह-तच्छ- ब्देनेति । प्रत्यवमृश्यन्त इति शेषः । तथा पाठश्च । कथन्नाम रीतीनां गुणानतिरिक्तत्व- मिति तदुपपादयति-तेषाञ्चेत्यादि । तेषां समुचितवृत्त्यर्पणे यत्सङ्घातरूपतागमनं त्रिविधं तदेव रीतिरिति सम्बन्धः । तेषां गुणानाम् । समुचितेति । समुचिता दीप्तादिवर्णनीयौचित्यवती या वृत्तिः विशिष्टा वर्णरचना, तस्यां यद्गुणानामर्पणं तस्मि- न्नित्यर्थः। समुचिता तत्तद्रसव्यञ्जनोचिता या वृत्तिः व्यापारः, तदर्पणे निमित्ते इति केचित् । अन्योन्येति । परस्परसंश्लेषयोग्यत्वेन हेतुनेत्यर्थः । त्रैविध्योपपादकं-दीप्ते- त्यादि । द्वन्द्वगर्भकर्मधारयस्य विषयपदेन बहुव्रीहिः । सङ्घातेति । समूहताप्राप्तिरि- त्यर्थः । असंहततया पृथक् पृथक् प्रातिस्विकरूपेणावस्थितानामेकत्र समूहीभावेन रूपा- न्तरप्राप्तिरिति यावत् । सङ्घातरूपत्वेन हृद्यत्वे दृष्टान्तः-पानक इवेति । तथा च माधु- र्यादिगुणानां प्रत्येकं प्रातिस्विकरूपेण रीतिशब्दवाच्यत्वं नास्ति, परन्तु विशिष्टसङ्घात- धर्मवत्तयेति भावः । ननु केनैतदुक्तमिति शङ्कायां वैदर्भादिशब्दप्रवृत्तिनिमित्तन्दर्शयन्नु- त्तरमाह-गौडीयेत्यादि । गौडविदर्भपाञ्चालसम्बन्धिनो गौडीयादयो ये देशास्तेषां तत्र. त्यकवीनामिति यावत् । विशिष्ट वर्णनविषये यो हेवाकः स्वभावः स्वाच्छन्द्ायं वा, तं प्रा- चुर्येण पश्यतीति तेन । वामनेनेति भावः । हेवाकप्राचुर्यस्य दृशा दर्शनेन हेतुनेत्यर्थो वा । विदर्भादिषु दृष्टत्वात्तत्समाख्येति भावः । त्रिविधमित्यनेन रीतिगतमपि गौडीया वैदर्भी पाञ्चालीति त्रैविध्यं सूचितम् । यथोक्तं वामनेन-"रीतिरात्मा काव्यस्य । विशिष्टा पादरचना रीतिः । विशेषो गुणात्मा । सा त्रेधा-वैदर्भी गौडीया पाञ्चाली च । वैद- र्भीदिषु दृष्टत्वात्तत्समाख्या । समग्रगुणा वैदर्भी । ओजःकान्तिमती गौडीया। माधुर्यसौ- कुमार्योपपन्ना पाञ्चाली" इति ।

 ननूक्तरीत्या वृत्यनुप्रासयोर्जातिजातिमद्भावादीतिगुणयोस्समुदायसमुदायिभावाच्च कथमैक्यमत आह-जातिरित्यादि । समुदायः अवयवी। समुदायिनः अव-


१. वा. सू., १. २.६-१३.