पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
प्रथमोद्योतः


यान्तःपातिनः सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।


लोचनम्

न्ति, त एव सहृदयाः । तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानातिरेकिण एव भवि- ष्यतीत्याशङ्कयाह-न चेति । यथा हि खङ्गलक्षणं करोमीत्युक्त्वा आतानवितानात्मा प्राब्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुर- च्छेदकः सुच्छेद्य उत्कृष्टः खड्ग इति ब्रुवाणः, परैः पटः खल्वेवंविधो भवति न खड्ग इत्ययुक्ततया पर्यनुयुज्यमान एवं ब्रूयात्-ईदृश एव खड्गो ममाभिमत इति तादृगेवै- तत् । प्रसिद्धं हि लक्ष्यं भवति न कल्पितमिति भावः । तदाह-सकलविद्वदिति । विद्वांसोऽपि हि तत्समयज्ञा एव भविष्यन्तीति शङ्कां सकलशब्देन निराकरोति ।

बालप्रिया

वृत्यर्थो विवृतः। तत्समयः ध्वनिपदसङ्केतः । 'तत्प्रसिद्धयेत्याद्यशं व्याचष्टे-तदभीति । नामशब्देन तदभिमतत्वस्यैव काव्यलक्षणत्वमिति सूचयति-इत्याशङ्कयाहेति । इत्ये- कांशेन ध्वनिवादिशङ्कामनूद्य परिहारमाहेत्यर्थः । 'सकले'त्यादि परिहारग्रन्थस्याभिप्राय सदृष्टान्तं स्पष्टयन्नाह-यथाहीत्यादि। खङ्गलक्षणं खड्गस्वरूपम् । करोमीति । करोतिरत्र वचनक्रियावाची । अत एव इति ब्रुवाण इति वक्ष्यते । आतानेति । आतानः आयामो विस्तारः । वितानः तिर्यग्विस्तारः । आत्मा स्वभावो यस्य सः । प्राव्रीयमाणः प्रावरणीक्रियमाणः । प्रावरणस्वरूप इति च पाठः । संवर्त- नेति । संवर्तनं सङ्कोचनम् । विवर्तनं विकासनम् । ते सहिष्णुः तद्योग्यः । इति ब्रुवाण इति । आतानादिविशिष्टः पदार्थः उत्कृष्टखड्ग इति वदन्नित्यर्थः । पर्यनुयु- ज्यमानः आक्षिप्यमाणः सन् । कथं बूयादित्यत्राह-ईदृश इत्यादि । ईदृशः पदार्थ एव मम खड्गत्वेनाभिप्रेत इत्यर्थः । एतदिति । सहृदयान्तरकल्पनयोक्तं काव्यल- क्षणमित्यर्थः ।

 नन्वमुया सोपहासोक्तया किं जातम् ? न नः किञ्चिच्छिन्नमित्यत आह–प्रसिद्ध- मिति । लक्ष्यं लक्षणेन निरूपणीयम् । न कल्पितमिति । लक्ष्यं भवतीत्यनुष- ज्यते । तदाह उक्ताद्भावादाह । उक्ताभिप्रायं वचनमाहेत्यर्थः । विद्वन्मनसामुचित- विषय एव प्रवृत्तिसम्भवाद्विद्वत्पदेन उक्ताभिप्रायस्सूचित इति भावः । 'सकले'त्युक्तः फलमाह--विद्वांसोऽपीति। तत्समयज्ञाः ध्वनिसमयज्ञाः । ननु माभूत्सकलवि-


१. यद्वा लक्षणमित्यस्य लक्षणकथनमित्यर्थः । तथा च कृतिविषयस्य तादृशकथ- नस्य सम्पाद्यमानतया 'ब्रुवाण' इत्यस्य सुस्पष्टा सङ्गतिः । अत एव 'युद्ध करोमीत्यु- क्त्वा युध्यमानः परान् विजयते' इत्यादिप्रयोगाणां समौचित्यं सिद्धं भवति ।