पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
प्रथमोद्योतः


अन्ये ब्रूयुः--नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकिणः काव्य.


लोचनम्

दायश्च समुदायिनो नान्य इति वृत्तिरीतयो न गुणालङ्कारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः । तदाह-तद्व्यतिरिक्तः कोऽयं ध्वनिरिति । नैष चारुत्वस्थानं शब्दार्थरूपत्वाभावात् । नापि चारुत्वहेतुः, गुणालङ्कारव्यतिरिक्तत्वादिति । तेनाखण्ड- बुद्धिसमास्वाद्यमपि काव्यमपोद्धारबुद्धया यदि विभज्यते, तथाप्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तोऽथों लभ्यत इति नामशब्देनाह ।

 ननु मा भूदसौ शब्दार्थस्वभावः, मा च भूत्तचारुत्वहेतुः, तेन गुणालङ्कारव्यति- रक्तोऽसौ स्यादित्याशङ्कय द्वितीयमभाववादप्रकारमाह-अन्य इति । भवत्वेवम् ; तथापि नास्त्येव ध्वनिर्यादृशस्तव लिलक्षयिषितः । काव्यस्य ह्यसौ कश्चिद्वक्तव्यः । न

बालप्रिया

स्वात् । नान्य इति । तयोस्तादात्म्यस्यैवाजीकारादिति भावः । प्रकृतमुपसंहरति- इतीति । स्थित एव उपपन्न एव । 'तद्वयतिरिक्त' इत्यादिग्रन्थः उक्तानुमानस्य निगमनरूप इत्यभिप्रायेणावतारयति-तदित्यादि । तदाह तस्मादाह । 'तद्वयतिरि- क' इति हेतुगर्भतच्छब्देन शब्दार्थौ तद्गुणालङ्काराश्च परामृश्यन्ते। 'कोऽयमि' न्यन्न किंशब्दः किमेष चारुत्वस्थान मुत चारुत्वहेतुरिति विकल्पनिषेधपरश्चेत्याशयेन ववृणोति-नैष इत्यादिना। शब्दार्थतद्गुणालङ्कारव्यतिरिक्तः काव्य चारुताहेतुत्वविशि. जो ध्वनिर्नास्तीति विशिष्टध्वनिसत्तानिषेधश्चानेनार्थासिद्धयतीति बोध्यम् । एष इति । वनित्वेनाभिमत इत्यर्थः । इतीत्यस्यानन्तरं किंशब्देनाहेति शेषो बोध्यः। किंशब्दे. वोक्तार्थे लब्धे कि नामशब्देनेत्यत आह-तेनेत्यादि। अपोद्धारवुद्धयेति । विभा- बुद्धयेत्यर्थः । नामशब्देनाहेति । नामशब्दोऽत्यन्तासत्वद्योतक इति भावः । एतावता शब्दार्थतद्गुणालङ्कारव्यतिरिक्तस्य काव्यशोभाहेतुत्वविशिष्टस्य ध्वनेर- भाव एव सिद्धः, न तु स्वरूपेण धनेरभाव इति तत्सिद्धये पक्षान्तरोपक्षेप इत्याशये- वितारयति-नन्वित्यादि । असौ ध्वनिः । तेनेति तथापीत्यर्थः । यद्वा चारुत्वहेतु- भावेनेत्यर्थः । चारुत्वहेतुत्वाद्धि गुणाद्यन्तर्भाव आपादितः, तदङ्गीकारे तु तद्वयति- क्तध्वनिसद्भावस्सम्भावनारह्ह एवेत्यर्थः । गुणालङ्कारेति शब्दार्थयोरुपलक्षणम् । इ. त्याशङ्कयेति। इति ध्वनिवादिशङ्काम्मनसिकृत्येत्यर्थः । भवत्वेवमित्यभ्युपगमे । तर्हि तमस्माभिरित्यत्राह-तथापीत्यादि । ननूक्तमेव तदस्तित्वमित्यत आह-यादृश न्यादि । तादृश इति पूर्वेण सम्बन्धः । यादृशो लिलक्षयिषितः काव्यसम्बन्धितया क्षणयुक्तं कर्तुमभिलषितः । इममर्थन्दर्शयन्नाह-काव्यस्य हीत्यादि । समुदितस्य


१. निगमनं नाम-'अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान कारणब्याप्तिपक्ष- आधीप्रयुक्तसाध्यधीजनकं वाक्यम् ।

२. तथाप्यर्थकत्वाप्रसिद्धराह यद्वेत