पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
तृतीयोद्योतः


 तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्ता- वदोषो यथा-

क्वकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् ।

•किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥


लोचनम्

पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥

 अत्र स्फुदैव रत्यङ्गता मरणस्य । अत एव सुकविना मरणे पदबन्धमात्रं न कृतम् , अनूद्यमानत्वेनैवोपनिबन्धनात् । पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिप. रिमितकालप्रत्यापत्तिलाभेऽपि ।

 अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतो- च्यते, हन्त तापसवत्सराजेऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासव- दत्तामरणबुद्धेर्रेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना । तस्माद्दी- र्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् । एवं नैसर्गिकाङ्गता व्याख्याता। समारो. पितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता ।

 एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति-तत्रेत्यादिना । क्वाकार्यमिति ।

बालप्रिया

मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यत इति । तीर्थ इति रघुवंशस्थम् । देहत्यागादि. ति च पाठः । कान्तया इन्दुमत्या । असौ अजः । रत्यङ्गतेति । रमणाङ्गतेत्यर्थः । मरणस्येति । देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः । प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः। पदबन्धः प्रतीतिविश्रान्तेः पदबन्धः । अनूद्यमानत्वेनेति । देहत्यागादित्यनेनेति भावः । अतीति । अतिपरि- मितोऽत्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः। शोकोदय एवेत्यनेनास्य सम्बन्धः । सहृदयानां शोकचर्वणैव भवेदिति तदर्थः ।

 केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षते, तदनुवदन्नाह-अथेत्यादि । अथेति प्रश्ने । प्रतिवक्ति-हन्तेत्यादि । अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते । स्वमतेनोपसंहरति-तस्मादित्यादि । दीघति । दीर्घकाल- तापदार्थोऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः । समारोपिता त्विति । अङ्गतेति शेषः । एतद्विपरीतेति । वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विप- रीतेत्यर्थः । व्याख्यातेति । पदर्शितेत्यर्थः । वृत्तौ 'तस्यैत्यादि । 'तस्य' शृङ्गारस्य ।