पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
द्वितीयोद्द्योतः


गण्डच्छायां शशिनि शिखिना बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्

 हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ।

इत्यादौ ।

 स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति । उक्त- प्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते । लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः। तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्धोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणदिग्द- र्शिता तामनुसरन् स्वयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिभमनन्तरो-


लोचनम्

तासु पाण्डिम्ना तनिम्ना कण्टकितत्वेन च योगात् । शशिनीति पाण्डुरत्वात् । उत्प- श्यामीति यत्नेनोत्प्रेक्षे । जीवितसन्धारणायेत्यर्थः । हन्तेति कष्टम् , भावे हि दोलायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकस्य धृतिं लभ इति भाव । भीर्वि- ति । यो हि कातर हृदयो भवति नासौ सर्वस्वमेकस्थं धारयतीत्यर्थः। अत्र ह्युत्प्रेक्षा. यास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं, तथा निर्वाहितमपि विप्रल. म्भरसपोषकमेव जातम् । तत्तु लक्ष्यं न दर्शितमिति सम्बन्धः । प्रत्युदाहरणे ह्यदर्शिते- ऽप्युदाहरणानुशीलनदिशा कृतकृत्यतेति दर्शयति-किं त्विति । अन्यल्लक्षणमि- ति । परीक्षाप्रकारमित्यर्थः । तद्यथावसरे त्यक्त्तस्यापि पुनर्ग्रहणमित्यादि । यथा ममैव-

 शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं

बालप्रिया

धर्म्यं गम्यं दर्शयति-पाण्डिम्नेत्यादि । कण्टकितत्वं तीक्ष्णाग्रावयवविशेषवत्वं रोमहर्षवत्वं च । हन्तेति विषादार्थकमित्याह-कष्टमकस्थेत्यादि । 'भीरु' इति सम्बुध्या द्योत्यमर्थमाह-यो हीत्यादि । न धारयति नावस्थापयति अन्याप्रहरण. शङ्कयेति भावः । तद्भावेति । अतस्मिस्तत्तादात्म्याहार्यसम्भावनारूपाया इत्यर्थः । अत्र च श्यामादावङ्गादितादात्म्यसम्भावना बोध्या। अनुप्राणकमिति । अङ्गमि- त्यर्थः । सादृश्यमिति । गम्यमिति शेषः । तथेति । अङ्गसादृश्यस्य उपक्रान्तस्य उपसंहारादिति भावः । निर्वाहितमिति । उत्प्रेक्षानिर्वहणद्वारा निर्वाहितमित्यर्थः । वृत्तावुपसंहरति-'स एव' मित्यादि । तथाविधमिति । उक्तप्रकारातिक्रान्तमित्यर्थः ।

 शीतांशोरिति । विरहिण उक्तिः । 'शीतांशोः कराः किरणाः अमृतच्छटाः, यदी- ति सिद्धानुवादे । यथा-"स्रगियं यदि जीवितापहे"त्यादौ । 'कस्मात् कुतः । मे मनः

      ३० ध्व०