पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४. काव्यमाला। दैवादवाप्य तपनीयनिधानकुम्भीं साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ २ ॥ अन्तर्वपु प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा । स्वल्पैरहोभिरभितो घनसारसार- क्लृप्तोपदेहमिव देहमुवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागत च निर्बन्धन च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥४॥ वृद्धि परामुदरमाप यथायथास्या श्यामानन स्तनभरोऽपि तथातथाभूत् । यद्वा नितान्तकठिना प्रकृति भजन्तो मध्यस्थमध्युदयिन न जडा सहन्ते ॥ ५॥ तस्या कपोलफलके स्फटिकाश्मकान्तौ कदर्पदर्पण इव प्रतिविम्बिताङ्ग । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्क ॥६॥ एकेन तेने बलिना स्वबलेन तस्या भक्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव समदरसेन सुहृत्तदाभू- दत्यन्तपीवरतर कुचकुम्भभार ॥ ७॥ उत्स्वातपकिलबिसाविव राजहसौ शुुभौ सभृङ्गवदनाविव पद्मकोषौ । १ भूमितलाद्देवानुकूल्येन लब्धमुवर्णकलशा मा कश्चिद्धार्षीदिति भयाकुला दरिद्रगु- हिणीव २ तेन गर्भस्थेन